Amritbindu
निर्विकल्पमनन्तं च हेतुदृष्टान्तवर्जितम् । अप्रमेयमनादिं च यज्ज्ञात्वा मुच्यते बुधः ॥९॥
निर्विकल्पम् । अनन्तम् । च । हेतु-दृष्टान्त-वर्जितम् । अप्रमेयम् । अनादिम् । च । यत् । ज्ञात्वा । मुच्यते । बुधः ।
nirvikalpam anantaṃ ca hetu-dṛṣṭānta-varjitam | aprameyam anādiṃ ca yaj jñātvā mucyate budhaḥ ||9||
ನಿರ್ವಿಕಲ್ಪವೂ ಅನಂತವೂ ಆಗಿ, ಕಾರಣ-ದೃಷ್ಟಾಂತವರ್ಜಿತವಾಗಿದ್ದು, ಅಪ್ರಮೇಯವೂ ಅನಾದಿಯೂ ಆಗಿರುವ ಅದನ್ನು ತಿಳಿದರೆ ಜ್ಞಾನಿ ಮುಕ್ತನಾಗುತ್ತಾನೆ.
(That) which is free of conceptual construction and infinite, devoid of reason and example, immeasurable and beginningless—having known that, the wise person is liberated.