ककु॒भᳪ रू॒पं वृ॑ष॒भस्य॑ रोचते बृ॒हच्छु॒क्रः शु॒क्रस्य॑ पुरो॒गाः सोम॒: सोम॑स्य पुरो॒गाः । यत्ते॑ सोमा॒दा॑भ्यं॒ नाम॒ जागृ॑वि॒ तस्मै॑ त्वा गृह्णामि॒ तस्मै॑ ते सोम॒ सोमा॑य॒ स्वाहा॑
kakúbhaṃ rūpáṃ vṛṣabhásya rocate bṛhácchukráḥ śukrásya purogā́ḥ sómaḥ sómasya purogā́ḥ | yát te somādā́bhyaṃ nā́ma jā́gṛvi tásmai tvā gṛhṇāmi tásmai te soma somā́ya svā́hā
ವೃಷಭನ ಕಕುಭ-ರೂಪವು ಪ್ರಕಾಶಿಸುತ್ತದೆ; ಮಹಾನ್ ಶುಕ್ರ (ಪ್ರಕಾಶಮಾನ) ಶುಕ್ರನ ಪುರೋಗಾಮಿ; ಸೋಮನು ಸೋಮನ ಪುರೋಗಾಮಿ. ಹೇ ಸೋಮ! ಸೋಮ-ಗ್ರಹಣಕ್ಕಾಗಿ ನಿನ್ನಲ್ಲಿ ಜಾಗೃತವಾಗಿರುವ ಯಾವ ನಾಮವಿದೆಯೋ, ಅದಕ್ಕಾಗಿ ನಿನ್ನನ್ನು ನಾನು ಗ್ರಹಿಸುತ್ತೇನೆ; ಅದಕ್ಕಾಗಿ, ಹೇ ಸೋಮ, ಸೋಮಕ್ಕೆ ಸ್ವಾಹಾ!
ककु॒भम् । रू॒पम् । वृ॑ष॒भस्य॑ । रोचते । बृ॒हत् । शु॒क्रः । शु॒क्रस्य॑ । पुरः॒-गाः । सोमः॑ । सोम॑स्य । पुरः॒-गाः । यत् । ते॒ । सो॒मा॒दाभ्य॑म् । नाम॑ । जागृ॑वि । तस्मै॑ । त्वा॒ । गृह्णामि । तस्मै॑ । ते॒ । सोम॑ । सोमा॑य । स्वाहा॑