Sukta 6.15
त्वमग्ने वनुष्यतो नि पाहि त्वमु नः सहसावन्नवद्यात् । सं त्वा ध्वस्मन्वदभ्येतु पाथः सं रयिः स्पृहयाय्यः सहस्री ॥
त्वम॑ग्ने वनुष्य॒तो नि पा॑हि॒ त्वमु॑ नः सहसावन्नव॒द्यात् । सं त्वा॑ ध्वस्म॒न्वद॒भ्ये॑तु॒ पाथ॒: सं र॒यिः स्पृ॑ह॒याय्य॑: सह॒स्री ॥
tvám agne vanuṣyató ní pāhi tvám u naḥ sahasāvan avadyā́t | sáṃ tvā dhvasmánvad abhy ètu pā́thaḥ sáṃ rayíḥ spṛhayā́yyaḥ sahasrī́ ||
ಓ ಅಗ್ನೇ, ಸೇವೆಗೆ ಯತ್ನಿಸುವವನನ್ನು ನೀನು ಕಾಪಾಡು; ಓ ಸಹಸಾವನ್ (ಮಹಾಬಲವಂತ), ನಮ್ಮನ್ನು ಅವದ್ಯ (ದೋಷ)ದಿಂದ ರಕ್ಷಿಸಿ ನಿರ್ದೋಷರನ್ನಾಗಿಸು. ಧ್ವಸ್ಮನ್ವತ್ (ಅಡ್ಡಿಗಳನ್ನು ಜಯಿಸುವ) ಶಕ್ತಿಯುಳ್ಳ ಪಥವು ನಿನ್ನ ಕಡೆಗೆ ಸಮೀಪಿಸಲಿ; ಆತ್ಮಕ್ಕೆ ಇಷ್ಟವಾದ ಸಹಸ್ರಗಣ ರಯಿ (ಸಂಪತ್ತು) ನಮ್ಮ ಬಳಿಗೆ ಸೇರಲಿ.
त्वम् । अ॒ग्ने॒ । व॒नु॒ष्य॒तः । नि । पा॒हि॒ । त्वम् । ऊँ॒ इति॑ । नः॒ । स॒ह॒सा॒ऽव॒न् । अ॒व॒द्यात् । सम् । त्वा॒ । ध्व॒स्म॒न्ऽवत् । अ॒भि । ए॒तु॒ । पाथः॑ । सम् । र॒यिः । स्पृ॒ह॒याय्यः॑ । स॒ह॒स्री ॥त्वम् । अग्ने । वनुष्यतः । नि । पाहि । त्वम् । ऊँ इति । नः । सहसावन् । अवद्यात् । सम् । त्वा । ध्वस्मन्वत् । अभि । एतु । पाथः । सम् । रयिः । स्पृहयाय्यः । सहस्री ॥tvam | agne | vanuṣyataḥ | ni | pāhi | tvam | oṃ iti | naḥ | sahasāvan | avadyāt | sam | tvā | dhvasman-vat | abhi | etu | pāthaḥ | sam | rayiḥ | spṛhayāyyaḥ | sahasrī