Sukta 1.15
अभि यज्ञं गृणीहि नो ग्नावो नेष्टः पिब ऋतुना । त्वं हि रत्नधा असि ॥
अ॒भि य॒ज्ञं गृ॑णीहि नो॒ ग्नावो॒ नेष्ट॒: पिब॑ ऋ॒तुना॑ । त्वं हि र॑त्न॒धा असि॑ ॥
abhí yajñáṃ gṛṇīhi no gnā́vo néṣṭaḥ píba ṛtúnā | tváṃ hí ratnadhā́ ási ||
ನಮ್ಮ ಯಜ್ಞದ ಕಡೆಗೆ ಅಭಿ—ನಿನ್ನ ಸ್ತುತಿಗಾನವನ್ನು ತಿರುಗಿಸು, ಹೇ ಗ್ನಾವಃ, ಹೇ ನೇಷ್ಟರ್; ಋತುನಾ ಯೋಗ್ಯ ಪ್ರಮಾಣದಲ್ಲಿ ಕುಡಿಯು. ಏಕೆಂದರೆ ನೀನೇ ರತ್ನಧಾಃ—ರತ್ನಗಳ ಧಾರಕ ಮತ್ತು ಸ್ಥಾಪಕ—ಆಗಿದ್ದೀಯೆ.
अ॒भि । य॒ज्ञम् । गृ॒णी॒हि॒ । नः॒ । ग्रावः॑ । नेष्ट॒रिति॑ । पिब॑ । ऋ॒तुना॑ । त्वम् । हि । र॒त्न॒ऽधा । असि॑ ॥अभि । यज्ञम् । गृणीहि । नः । ग्रावः । नेष्टरिति । पिब । ऋतुना । त्वम् । हि । रत्नधा । असि ॥abhi | yajñam | gṛṇīhi | naḥ | grāvaḥ | neṣṭariti | piba | ṛtunā | tvam | hi | ratna-dhā | asi