Bhikshuka
अथ हंसा नाम ग्रामे एकरात्रं नगरे पञ्चरात्रं क्षेत्रे सप्तरात्रं तदुपरि न वसेयुः । गोमूत्रगोमयाहारिणो नित्यं चान्द्रायणपरायणा योगमार्गे मोक्षमेव प्रार्थयन्ते॥४॥
अथ । हंसाः । नाम । ग्रामे । एक-रात्रम् । नगरे । पञ्च-रात्रम् । क्षेत्रे । सप्त-रात्रम् । तत्-उपरि । न । वसेयुः । गो-मूत्र-गो-मय-आहारिणः । नित्यम् । चान्द्रायण-परायणाः । योग-मार्गे । मोक्षम् । एव । प्रार्थयन्ते ॥४॥
atha haṁsā nāma grāme eka-rātraṁ nagare pañca-rātraṁ kṣetre sapta-rātraṁ tad-upari na vaseyuḥ | go-mūtra-go-mayāhāriṇo nityaṁ cāndrāyaṇa-parāyaṇā yoga-mārge mokṣam eva prārthayante ||4||
ឥឡូវ អ្នកដែលហៅថា ហំស នៅភូមិស្នាក់ ១ យប់ នៅទីក្រុង ៥ យប់ នៅទីបរិសុទ្ធ ៧ យប់; លើសពីនេះ មិនគួរស្នាក់នៅទេ។ ពួកគេរស់ដោយទឹកនោមគោ និងលាមកគោ ហើយឧស្សាហ៍ប្តេជ្ញាចិត្តក្នុងវត្ត ចន្ទ្រាយណៈ; លើមាគ៌ាយោគៈ ពួកគេប្រាថ្នាមោក្សៈតែប៉ុណ្ណោះ។
Now, those called Haṁsas: in a village (they stay) one night, in a city five nights, in a sacred place seven nights; beyond that they should not dwell. Living on cow’s urine and cow-dung, and ever devoted to the Cāndrāyaṇa observance, they seek liberation alone on the path of yoga.