Sukta 8.96
अध द्रप्सो अंशुमत्या उपस्थेऽधारयत्तन्वं तित्विषाणः । विशो अदेवीरभ्याचरन्तीर्बृहस्पतिना युजेन्द्रः ससाहे ॥
अध॑ द्र॒प्सो अं॑शु॒मत्या॑ उ॒पस्थेऽधा॑रयत्त॒न्वं॑ तित्विषा॒णः । विशो॒ अदे॑वीर॒भ्या॒३॒॑चर॑न्ती॒र्बृह॒स्पति॑ना यु॒जेन्द्र॑: ससाहे ॥
ádha drapsó aṃśumátyā upásthe ’dhārayat tanvàṃ titviṣāṇáḥ | víśo adevīr abhyā́carantīr bṛ́haspátinā yujéndraḥ sasāhe ||
Then the drop, in the lap of the radiant one, held and sustained its own body, blazing. Indra, yoked with Bṛhaspati, overcame the ungodly clans that moved against (the light).
अध॑ । द्र॒प्सः । अं॒शु॒ऽमत्याः॑ । उ॒पऽस्थे॑ । अधा॑रयत् । त॒न्व॑म् । ति॒त्वि॒षा॒णः । विशः॑ । अदे॑वीः । अ॒भि । आ॒ऽचर॑न्तीः । बृह॒स्पति॑ना । यु॒जा । इन्द्रः॑ । स॒स॒हे॒ ॥अध । द्रप्सः । अंशुमत्याः । उपस्थे । अधारयत् । तन्वम् । तित्विषाणः । विशः । अदेवीः । अभि । आचरन्तीः । बृहस्पतिना । युजा । इन्द्रः । ससहे ॥adha | drapsaḥ | aṃśu-matyāḥ | upa-sthe | adhārayat | tanvam | titviṣāṇaḥ | viśaḥ | adevīḥ | abhi | ācarantīḥ | bṛhaspatinā | yujā | indraḥ | sasahe