Adhyaya 12
Amsha 1 - Cosmic OriginationAdhyaya 12102 Verses

Adhyaya 12

ध्रुवस्य तपः — देवमायाविघ्नाः, विष्णोर्दर्शनम्, स्तुतिः, ध्रुवस्थानप्रदानम्

パラーシャラはマイトレーヤに、ヤムナー河畔のマドゥヴァナ—ハリの近在するティールタ—でドゥルヴァが行った修行を語り続ける。ドゥルヴァの瞑想は一点に凝り、宇宙の安定さえ揺らぐほどとなるため、神々はマーヤーで三昧を破ろうとする。まずスニーティーの姿で情に訴え、次に恐るべきラクシャサの幻影を見せるが、心がゴーヴィンダに定まっているので、それらは感覚の及ぶ外に退く。驚いた神々はハリに帰依し、ヴィシュヌは願いを叶えると約して四臂の姿で自ら現れる。ドゥルヴァは主を讃える恩寵を求め、法螺貝(シャṅカ)に触れられて霊知を得ると、ヴィシュヌを諸元素・内なる機能・そしてプラダーナとプルシャを超える超越実在、世界の原因として讃嘆する大いなる讃歌を捧げる。ヴィシュヌは諸世界の上、さらに七仙(サプタリシ)よりも上なる不滅のドゥルヴァ位(ドゥルヴァスターナ)を授け、スニーティーも高める。章末にはドゥルヴァの昇進を誦する功徳(ファラシュルティ)が説かれる。

Shlokas

Verse 1

निशम्यैतद् अशेषेण मैत्रेय नृपतेः सुतः निर्जगाम वनात् तस्मात् प्रणिपत्य स तान् ऋषीन्

マイトレーヤよ、これらを余すところなく聞き終えると、王子はその森から出て、かの聖仙たちに近づき、敬虔に礼拝してひれ伏した。

Verse 2

कृतकृत्यम् इवात्मानं मन्यमानस् ततो द्विज मधुसंज्ञं महापुण्यं जगाम यमुनातटम्

そのとき、二度生まれの聖者よ、彼は己をあたかも目的を果たした者のように思い、至上の功徳をもつヤムナー河畔、マドゥと呼ばれる地へ赴いた。

Verse 3

पुनश् च मधुसंज्ञेन दैत्येनाधिष्ठितं यतः ततो मधुवनं नाम्ना ख्यातम् अत्र महीतले

さらに、この地はかつてマドゥという名のダイティヤに支配され占められていたため、人界では「マドゥヴァナ」――「マドゥの森」として知られるようになった。

Verse 4

हत्वा च लवणं रक्षो मधुपुत्रं महाबलम् शत्रुघ्नो मधुरां नाम पुरीं यत्र चकार वै

そしてマドゥの子である強大な羅刹ラヴァナを討ち、シャトルグナはそこに「マドゥラー(マトゥラー)」と名高い都を築いた。

Verse 5

यत्र वै देवदेवस्य सांनिध्यं हरिमेधसः सर्वपापहरे तस्मिंस् तपस् तीर्थे चकार सः

そこは、神々の神ハリの臨在がまことに近い場所であり、あらゆる罪を洗い去る苦行の聖なる渡し(ティールタ)において、彼は苦行を修した。

Verse 6

मरीचिमिश्रैर् मुनिभिर् यथोद्दिष्टम् अभूत् तथा आत्मन्य् अशेषदेवेशं स्थितं विष्णुम् अमन्यत

マリーチをはじめとする聖仙たちが説いたとおり、そのまま成就した。彼は自らの内に安住するヴィシュヌ――余すところなく諸神の主――を悟った。

Verse 7

अनन्यचेतसस् तस्य ध्यायतो भगवान् हरिः सर्वभूतगतो विप्र सर्वभावगतो ऽभवत्

婆羅門よ、彼が他に心を分けず専一に観想するとき、福徳なるハリは一切衆生の内なる主(アンタリヤーミン)として、あらゆる状態に遍満して顕現した。

Verse 8

मनस्य् अवस्थिते तस्य विष्णौ मैत्रेय योगिनः न शशाक धरा भारम् उद्वोढुं भूतधारिणी

マイトレーヤよ、そのヨーギーの心がヴィシュヌに堅く安住したとき、万有を支える大地でさえ、その重みを担いきれなかった。

Verse 9

वामपादस्थिते तस्मिन् ननामार्धेन मेदिनी द्वितीयं च ननामार्धं क्षितेर् दक्षिणतः स्थिते

彼が左足を固く据えると大地は半ば伏し、さらに大地の右側に立つと、残る半ばもまた伏して、ことごとく帰伏した。

Verse 10

पादाङ्गुष्ठेन संपीड्य यदा स वसुधां स्थितः तदा सा वसुधा विप्र चचाल सह पर्वतैः

婆羅門よ、彼が大地に立ち、足の親指でそれを押し沈めたとき、山々を伴う大地は震え動き始めた。

Verse 11

नद्यो नदाः समुद्राश् च संक्षोभं परमं ययुः तत्क्षोभाद् अमराः क्षोभं परं जग्मुर् महामुने

河川も流れも大海も至極の動揺に包まれ、その揺らぎによって、大聖者よ、不死の神々さえさらに大きく心騒がせた。

Verse 12

यामा नाम तदा देवा मैत्रेय परमाकुलाः इन्द्रेण सह संमन्त्र्य ध्यानभङ्गं प्रचक्रमुः

そのとき、マイトレーヤよ、「ヤーマ」と呼ばれる神々は大いに動揺し、インドラと相談して、彼の禅定を破ろうとし始めた。

Verse 13

कूष्माण्डा विविधै रूपैर् महेन्द्रेण महामुने समाधिभङ्गम् अत्यन्तम् आरब्धाः कर्तुम् आतुराः

大いなる聖者よ、マヘーンドラに促され、クーシュマーンダたちはさまざまな姿に変じ、彼の三昧の堅固さを激しく打ち砕こうと躍起になった。

Verse 14

सुनीतिर् नाम तन्माता सास्रा तत्पुरतः स्थिता पुत्रेति करुणां वाचम् आह मायामयी तदा

そのとき母スニーティーは涙ながらに彼の前に立ち、マーヤーに心を覆われて、哀れみの声で「わが子よ…」と語った。

Verse 15

पुत्रकास्मान् निवर्तस्व शरीरव्ययदारुणात् निर्बन्धतो मया लब्धो बहुभिस् त्वं मनोरथैः

わが子よ、この恐ろしい身の消耗から引き返しなさい。私は幾度も願い、数えきれぬ望みを抱いてようやくお前を得たのだ。自らを滅びへ投げるでない。

Verse 16

दीनाम् एकां परित्यक्तुम् अनाथां न त्वम् अर्हसि सपत्नीवचनाद् वत्स अगतेस् त्वं गतिर् मम

わが子よ、継母の言葉ゆえに、この哀れで独り、頼るところなき母を捨ててはならぬ。行き場なき者にとって、お前こそが道であり、お前こそが唯一の拠り所なのだ。

Verse 17

क्व च त्वं पञ्चवर्षीयः क्व चैतद् दारुणं तपः निवर्त्यतां मनः कष्टान् निर्बन्धात् फलवर्जितात्

そなたはまだ五歳ではないか。どうしてこのような苛烈な苦行を行うのだ。果のない厳しい執念の努めから、心を引き返しなさい。

Verse 18

कालः क्रीडनकानां ते तदन्ते ऽध्ययनस्य च ततः समस्तभोगानां तदन्ते चेष्यते तपः

人にとって時は玩具のようなもの。まず遊びに費やされ、次に学びに費やされる。さらに世の享楽を味わい尽くし、それさえ尽きてようやく、最後に苦行へと向かう。

Verse 19

कालः क्रीडनकानां यस् तव बालस्य पुत्रक तस्मिंस् त्वम् इत्थं तपसि किं नाशायात्मनो रतः

わが子よ、幼子の時は遊びと玩具のためにある。なのに、なぜそなたはこのように苦行に執し、自らの滅びを求めるかのようなのだ。

Verse 20

मत्प्रीतिः परमो धर्मो वयोवस्थाक्रियाक्रमम् अनुवर्तस्व मा मोहं निवर्तास्माद् अधर्मतः

「わが満足こそが最高のダルマである。ゆえに年齢と生の段階にふさわしい務めの順序に従いなさい。迷妄に陥るな。この不義の道から引き返せ。」

Verse 21

परित्यजति वत्साद्य यद्य् एतन् न भवांस् तपः त्यक्ष्याम्य् अहम् अपि प्राणांस् ततो वै पश्यतस् तव

「もしそなたがこの苦行を捨てぬなら――我が子さえ捨てることから始まるこの捨離を――わたしもまた命の息を捨てよう。しかもそれは、そなたの目の前で。」

Verse 22

स तां विलपतीम् एवं बाष्पव्याकुललोचनाम् समाहितमना विष्णौ पश्यन्न् अपि न दृष्टवान्

彼女がこのように泣き叫び、涙にかすみ揺れる眼をしていても、彼は心を収めて主ヴィシュヌに没入していたため、見つめながらも真に彼女を見なかった。

Verse 23

वत्स वत्स सुघोराणि रक्षांस्य् एतानि भीषणे वने ऽभ्युद्यतशस्त्राणि समायान्त्य् अपगम्यताम्

「わが子よ、わが子よ!この恐ろしい森で、武器を振り上げた最凶の羅刹たちがこちらへ押し寄せてくる。さあ、ただちに退こう。」

Verse 24

इत्य् उक्त्वा प्रययौ साथ रक्षांस्य् आविर्बभुस् ततः अभ्युद्यतोग्रशस्त्राणि ज्वालामालाकुलैर् मुखैः

そう言い終えると、彼はただちに去った。すると羅刹たちが忽然と現れ、恐るべき武器を振り上げ、炎の花輪に包まれた顔で迫った。

Verse 25

ततो नादान् अतीवोग्रान् राजपुत्रस्य ते पुरः मुमुचुर् दीप्तशस्त्राणि भ्रामयन्तो निशाचराः

すると夜に徘徊する魔たちは、燃えさかる武器を振り回し、王子の目前で凄まじく荒々しい鬨の声を放った。

Verse 26

शिवाश् च शतशो नेदुः सज्वालकवलैर् मुखैः त्रासाय तस्य बालस्य योगयुक्तस्य सर्वतः

彼の周囲では、炎を呑む口のように大きく口を開けた幾百の山犬が吠え立て、少年を脅かそうとした。だが彼はヨーガに結ばれ、四方からも揺るがず堅固であった。

Verse 27

हन्यतां हन्यताम् एष छिद्यतां छिद्यताम् अयम् भक्ष्यतां भक्ष्यतां चायम् इत्य् ऊचुस् ते निशाचराः

「殺せ、殺せ! 斬れ、斬れ! 喰らえ、喰らえ!」—そう叫びつつ、狂おしい怒りに囚われた夜行の羅刹たちは彼を取り囲んで迫った。

Verse 28

ततो नानाविधान् नादान् सिंहोष्ट्रमकराननाः त्रासाय राजपुत्रस्य नेदुस् ते रजनीचराः

すると、獅子・駱駝・マカラのような顔をもつ夜行の者たちは、王子を脅かすためにさまざまな恐ろしい叫び声をあげた。

Verse 29

रक्षांसि तानि ते नादाः शिवास् तान्य् आयुधानि च गोविन्दासक्तचित्तस्य ययुर् नेन्द्रियगोचरम्

その羅刹たちも、その叫びも、不吉な兆しも、さらには武器さえも—ゴーヴィンダに心を結びつけた者の前では—感覚の及ばぬ彼方へと消え失せ、まるで初めから無かったかのようであった。

Verse 30

एकाग्रचेताः सततं विष्णुम् एवात्मसंश्रयम् दृष्टवान् पृथिवीनाथपुत्रो नान्यत् कथंचन

心を一点に定めた王子—大地の主の子—は、自らの魂の依り処であるヴィシュヌのみを常に観じ、他の何ものをも決して見なかった。

Verse 31

ततः सर्वासु मायासु विलीनासु पुनः सुराः संक्षोभं परमं जग्मुस् तत्पराभवशङ्किताः

やがてあらゆる幻術が溶け去ると、神々は再び激しく動揺し、自らの敗北を恐れて胸騒ぎに沈んだ。

Verse 32

ते समेत्य जगद्योनिम् अनादिनिधनं हरिम् शरण्यं शरणं यातास् तपसा तस्य तापिताः

その苦行の力に灼かれて、彼らは集い、宇宙の胎にして無始無終、帰依すべき守護者たるハリに庇護を求めた。

Verse 33

देवदेव जगन्नाथ परेश पुरुषोत्तम ध्रुवस्य तपसा तप्तास् त्वां वयं शरणं गताः

神々の神、世界の主、至高の統御者、プルショッタマよ。ドゥルヴァの苦行の熱に灼かれ、われらは汝に帰依して来た。

Verse 34

दिने दिने कलाशेषैः शशाङ्कः पूर्यते यथा तथायं तपसा देव प्रयात्य् ऋद्धिम् अहर्निशम्

月が満ちてゆく折、残る分が日ごとに加わって満ちるように、この者も—おおデーヴァよ—苦行によって昼夜たゆまず、いよいよ大いなる成就と繁栄へと進んでいる。

Verse 35

औत्तानपादितपसा वयम् इत्थं जनार्दन भीतास् त्वां शरणं यातास् तपसस् तं निवर्तय

ジャナールダナよ。ウッターナパーダの子の苦行により、われらはこのように苦しめられ恐れ、汝のもとへ帰依した。彼をそのタパスから止め給え。

Verse 36

न विद्मः किं स शक्रत्वं किं सूर्यत्वम् अभीप्सति वित्तपाम्बुपसोमानां साभिलाषः पदेषु किम्

彼が真に何を望むのか、われらには分からぬ——インドラの位か、太陽の輝ける主権か。財や水、さらにはソーマに渇く者が欲するその地位を、彼が何ゆえ求めようか。

Verse 37

तद् अस्माकं प्रसीदेश हृदयाच् छल्यम् उद्धर उत्तानपादतनयं तपसः संनिवर्तय

ゆえに主よ、われらに慈悲を垂れたまえ。われらの心より悲嘆の棘を抜き取り、ウッターナパーダの子ドルヴァを苛烈な苦行から引き返させたまえ。

Verse 38

नेन्द्रत्वं न च सूर्यत्वं नैवाम्बुपधनेशताम् प्रार्थयत्य् एष यं कामं तं करोम्य् अखिलं सुराः

彼はインドラの主権も、太陽の位も、海とその秘蔵の宝の支配すら求めていない。おお神々よ、彼が願う望みは何であれ、われは余すところなく授けよう。

Verse 39

यात देवा यथाकामं स्वस्थानं विगतज्वराः निवर्तयाम्य् अहं बालं तपस्य् आसक्तमानसम्

神々よ、もはや苦悩の熱は鎮まった。望むままに各々の住処へ帰れ。われは苦行に心を燃やして執着するその少年を引き返させよう。

Verse 40

इत्य् उक्ता देवदेवेन प्रणम्य त्रिदशास् ततः प्रययुः स्वानि धिष्ण्यानि शतक्रतुपुरोगमाः

神々の神にこのように告げられると、天人たちは恭しく礼拝し、ついでシャタクラトゥ(インドラ)を先頭に、それぞれの輝く住処へと去って行った。

Verse 41

भगवान् अपि सर्वात्मा तन्मयत्वेन तोषितः गत्वा ध्रुवम् उवाचेदं चतुर्भुजवपुर् हरिः

ドルヴァが完全に御身に没入していることを喜ばれた、万有の内なる自己たる福徳の主ハリは、四臂の御姿で少年に近づき、こう語りかけた。

Verse 42

औत्तानपादे भद्रं ते तपसा परितोषितः वरदो ऽहम् अनुप्राप्तो वरं वरय सुव्रत

ウッターナパーダの子よ、汝に吉祥あれ。汝の苦行に満足し、我は授与者として来た。聖なる誓いに堅き者よ、望む恩寵を選べ。

Verse 43

बाह्यार्थनिरपेक्षं ते मयि चित्तं यद् आहितम् तुष्टो ऽहं भवतस् तेन तद् वृणीष्व वरं परम्

外の対象に依らず、汝の心が我に据えられたゆえ、我は汝を喜ぶ。ゆえに最上の恩寵を選べ。

Verse 44

श्रुत्वेत्थं गदितं तस्य देवदेवस्य बालकः उन्मीलिताक्षो ददृशे ध्यानदृष्टं हरिं पुरः

かく神々の神の言葉を聞くや、幼子は目を開き、瞑想の内に見ていたハリを目前に見た。内観の主が、いまや直に顕現したのである。

Verse 45

शङ्खचक्रगदाशार्ङ्गवरासिधरम् अच्युतम् किरीटिनं समालोक्य जगाम शिरसा महीम्

法螺・円盤・棍棒・シャールンガの弓・妙剣を携え、冠を戴く不滅のアチュタを見て、彼は頭を地に付けて礼拝した。

Verse 46

रोमाञ्चिताङ्गः सहसा साध्वसं परमं गतः स्तवाय देवदेवस्य स चक्रे मानसं ध्रुवः

たちまちドゥルヴァの身は歓喜に震え、深い畏敬に包まれた。彼は神々の神を讃えるため、心中に讃歌を結んだ。

Verse 47

किं वदामि स्तुताव् अस्य केनोक्तेनास्य संस्तुतिः इत्य् आकुलमतिर् देवं तम् एव शरणं ययौ

彼を讃えて私は何を語れようか。誰の言葉によって彼の讃嘆が十分に語られ得るのか。かくして心乱れ、彼はただその神のみを避難処として帰依した。

Verse 48

भगवन् यदि मे तोषं तपसा परमं गतः स्तोतुं तद् अहम् इच्छामि वरम् एनं प्रयच्छ मे

おお福徳なる主よ、もし我が苦行によってあなたの至上の御満悦に達したのなら、私はあなたを讃えたい。この願いを恩寵としてお授けください。

Verse 49

ब्रह्माद्यैर् वेदवेदज्ञैर् ज्ञायते यस्य नो गतिः तं त्वां कथम् अहं देव स्तोतुं शक्ष्यामि बालकः

梵天をはじめヴェーダに通じた賢者たちでさえ、あなたの究極の行路と限界を知り得ません。ましてや幼子の私が、どうしてあなたをふさわしく讃えられましょう、デーヴァよ。

Verse 50

त्वद्भक्तिप्रवणं ह्य् एतत् परमेश्वर मे मनः स्तोतुं प्रवृत्तं त्वत्पादौ तत्र प्रज्ञां प्रयच्छ मे

至上主よ、我が心はあなたへのバクティに傾き、あなたの御足を讃えようと起ち上がりました。ゆえに、正しく讃歌を捧げるための真の智慧をお授けください。

Verse 51

शङ्खप्रान्तेन गोविन्दस् तं पस्पर्श कृताञ्जलिम् उत्तानपादतनयं द्विजवर्य जगत्पतिः

そのとき世界の主ゴーヴィンダは、二度生まれの最勝者よ、合掌して立つウッターナパーダの子に、御法螺貝の先でそっと触れた。

Verse 52

अथ प्रसन्नवदनः तत्क्षणान् नृपनन्दनः तुष्टाव प्रणतो भूत्वा भूतधातारम् अच्युतम्

そのとき、安らぎに輝く顔の王子は、ただちに恭しくひれ伏し、万有を支え定める不滅の主アチュタを讃えた。

Verse 53

भूमिर् आपो ऽनलो वायुः खं मनो बुद्धिर् एव च भूतादिर् आदिप्रकृतिर् यस्य रूपं नतो ऽस्मि तम्

大地・水・火・風・虚空がその御姿であり、また心と知性も御姿である方、万有の根源にして原初のプラクリティなる御方に、私は礼拝する。

Verse 54

शुद्धः सूक्ष्मो ऽखिलव्यापी प्रधानात् परतः पुमान् यस्य रूपं नमस् तस्मै पुरुषाय गुणात्मने

清浄にして微妙、遍く満ちる御方。プラダーナを超えて立つ至上のプルシャに、あらゆるグナの本体たるそのプルシャに、私は敬礼する。

Verse 55

भूरादीनां समस्तानां गन्धादीनां च शाश्वतः बुद्ध्यादीनां प्रधानस्य पुरुषस्य च यः परः

地に始まる諸元素の総体をも、香に始まる感官の性質をも、知性に始まる内的器官をも、さらにプラダーナとプルシャの双方をも、永遠に超越する御方—その御方こそ最高の実在である。

Verse 56

तं ब्रह्मभूतम् आत्मानम् अशेषजगतः पतिम् प्रपद्ये शरणं शुद्धं त्वद्रूपं परमेश्वर

パラメーシュヴァラよ、梵となった自己、余すところなき宇宙の主に私は帰依する。清浄なる避難処、すなわち汝の御姿そのものに身を委ねる。

Verse 57

बृहत्त्वाद् बृंहणत्वाच् च यद् रूपं ब्रह्मसंज्ञितम् तस्मै नमस् ते सर्वात्मन् योगिचिन्त्याविकारवत्

ああ一切の自己よ。無辺の広大さと万物を増大・展開させる力ゆえに「ブラフマン」と称されるその御姿に礼拝する。変易なきまま、なお瑜伽行者が内なる瞑想において観想する御方よ。

Verse 58

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् सर्वव्यापी भुवः स्पर्शाद् अत्यतिष्ठद् दशाङ्गुलम्

千の頭、千の眼、千の足をもつ宇宙のプルシャは、すべてに遍満する。大地を四方から包み尽くしてなお、『十指』ほどそれを超えて、彼はその外に立つ。

Verse 59

यद् भूतं यच् च वै भव्यं पुरुषोत्तम तद् भवान् त्वत्तो विराट् स्वराट् सम्राट् त्वत्तश् चाप्य् अधिपूरुषः

おおプルショーत्तマよ。かつて在ったもの、これから在るもの、そのすべては汝である。汝よりヴィラート、スヴァラート、サムラートが生じ、また汝よりアディプルシャ(根源のプルシャ)も現れる。

Verse 60

अत्यरिच्यत सो ऽधश् च तिर्यग् ऊर्ध्वं च वै भुवः त्वत्तो विश्वम् इदं जातं त्वत्तो भूतभविष्यती

汝は世界を下にも、横にも、上にも超えて満ちあふれる。 この全宇宙は汝より生じ、また汝より、過去と未来にわたり存続する。

Verse 61

त्वद्रूपधारिणश् चान्तः सर्वभूतम् इदं जगत् त्वत्तो यज्ञः सर्वहुतः पृषदाज्यं पशुर् द्विधा

この一切の有情世界は汝の御姿を帯び、汝はその内に内在主(アンタリヤーミ)として住まう。汝より祭祀(ヤジュニャ)が生じる—総供養(サルヴァフタ)、凝乳とギーを混ぜた供物、そして二様の相をもつ犠牲獣もまた。

Verse 62

त्वत्त ऋचो ऽथ सामानि त्वत्तश् छन्दांसि जज्ञिरे त्वत्तो यजूंष्य् अजायन्त त्वत्तो ऽश्वाश् चैकतोदतः

汝よりリグの讃歌とサーマの詠唱が起こり、汝よりヴェーダの韻律が生まれる。汝よりヤジュスの祭詞が現れ、また汝より、歯が一列の馬も二列の馬も生じる。

Verse 63

गावस् त्वत्तः समुद्भूतास् त्वत्तो ऽजा अवयो मृगाः त्वन्मुखाद् ब्राह्मणा बाह्वोस् त्वत्तः क्षत्रम् अजायत

汝より牛が生じ、汝より山羊・羊・野の獣が生まれる。汝の口よりブラーフマナが現れ、汝の腕よりクシャトリヤの威力が生じる—かくして生の諸秩序は至上のプルシャより流れ出る。

Verse 64

वैश्यास् तवोरुजाः शूद्रास् तव पद्भ्यां समुद्गताः अक्ष्णोः सूर्यो ऽनिलः प्राणाच् चन्द्रमा मनसस् तव

汝の腿よりヴァイシャが生じ、汝の足よりシュードラが現れる。汝の眼より太陽が生まれ、汝の生命の息より風が生じ、汝の心より月が生まれる—人の秩序も宇宙の秩序も、ただ汝の顕現である。

Verse 65

प्राणो ऽन्तःसुषिराज् जातो मुखाद् अग्निर् अजायत नाभितो गगनं द्यौश् च शिरसः समवर्तत दिशः श्रोत्रात् क्षितिः पद्भ्यां त्वत्तः सर्वम् अभूद् इदम्

汝の内なる空隙よりプラーナが生じ、汝の口より聖火アグニが生まれる。汝の臍より虚空が広がり、汝の頭より天が形づくられる。汝の耳より方位が現れ、汝の足より大地が生じる—かくしてこの宇宙のすべては、ただ汝より成った。

Verse 66

न्यग्रोधः सुमहान् अल्पे यथा बीजे व्यवस्थितः संयमे विश्वम् अखिलं बीजभूते तथा त्वयि

小さな種子の中に巨大なニャグローダ(バンヤン)が微細に宿るように、収束と滅尽の時、全宇宙は種子の姿で汝の内に憩う—汝こそその種子であり因の根拠だからである。

Verse 67

बीजाद् अङ्कुरसंभूतो न्यग्रोधः स समुच्छ्रितः विस्तारं च यथा याति त्वत्तः सृष्टौ तथा जगत्

種から芽が出て、その芽からガジュマルの木が高くそびえ、広く枝を広げるように、創造の時にあたり、この全宇宙はあなたから生じ、広がっていくのです。

Verse 68

यथा हि कदली नान्या त्वक्पत्रान् नाथ दृश्यते एवं विश्वस्य नान्यस् त्वं त्वत्स्थायीश्वर दृश्यते

主よ、バナナの木がその皮や葉の重なりと別のものではないように、この全宇宙もあなた以外のものとは見なされません。なぜなら、宇宙はあなたの中に確立されており、あなただけがその常住の主宰者として認められるからです。

Verse 69

ह्लादिनी संधिनी संवित् त्वय्य् एका सर्वसंस्थितौ ह्लादतापकरी मिश्रा त्वयि नो गुणवर्जिते

歓喜(フラーディニー)、存在(サンディニー)、意識(サムヴィット)の力は、万物の支えであるあなたの中で一つとして存在しています。しかし、私たちの中ではそれらは混ざり合った力として現れ、喜びと苦しみの両方を生み出します。グナ(属性)から自由であるあなたの中では、それらはそのように分割されたり汚されたりしていません。

Verse 70

पृथग्भूतैकभूताय भूतभूताय ते नमः प्रभूतभूतभूताय तुभ्यं भूतात्मने नमः

あなたに帰依いたします。あなたは多くの異なる存在として現れますが、真実においては唯一の存在です。存在するすべてのものの源であり基盤であるあなたに帰依いたします。すべての生き物の内なる自己であるあなたに帰依いたします。

Verse 71

व्यक्तप्रधानपुरुषविराट् संराट् स्वराट् तथा विभाव्यते ऽन्तःकरणे पुरुषेष्व् अक्षयो भवान्

不滅なるあなた様は、すべての存在の内なる器官において観想されます。顕現した宇宙として、プラダーナ(根本原質)として、プルシャ(内なる霊)として、ヴィラート(宇宙的形態)として、そして主権者なる主として。すべてを統べる皇帝であり、自らを律する至高の存在として。

Verse 72

सर्वस्मिन् सर्वभूतस् त्वं सर्वः सर्वस्वरूपधृक् सर्वं त्वत्तस् ततश् च त्वं नमः सर्वात्मने ऽस्तु ते

あらゆるものの中に、また一切の生きものの内なる住者(アンタリヤーミン)として、あなたはまします。あなたこそ万有、あらゆる姿を担うお方。すべてはあなたより起こり、起こりてなおあなたに住す。万有の自己なるあなたに礼拝します。

Verse 73

सर्वात्मको ऽसि सर्वेश सर्वभूतस्थितो यतः कथयामि ततः किं ते सर्वं वेत्सि हृदि स्थितम्

あなたは万有の自己、万有の主。すべての生きものの内に住まわれるゆえです。ならば私は何を申し上げましょう。あなたは心に坐して、すべてをすでにご存じです。

Verse 74

सर्वात्मन् सर्वभूतेश सर्वसत्त्वसमुद्भव सर्वभूतो भवान् वेत्ति सर्वसत्त्वमनोरथम्

万有の自己よ、万生の主よ、あらゆるいのちの源よ。あなたは一切の生きものとして現れ、各々の心を動かす内なる意図と願いを知っておられる。

Verse 75

यो मे मनोरथो नाथ सफलः स त्वया कृतः तपश् च तप्तं सफलं यद् दृष्टो ऽसि जगत्पते

主よ、わが心の願いはあなたによって成就しました。世界の主よ、あなたを拝し、あなたのダルシャナを得たゆえに、わが苦行もまた真の果を結びました。

Verse 76

तपसस् तत् फलं प्राप्तं यद् दृष्टो ऽहं त्वया ध्रुव मद्दर्शनं हि विफलं राजपुत्र न जायते

ドゥルヴァよ、汝は我を見たゆえに、苦行の真の果を得た。王子よ、我がダルシャナは決して空しくはならぬ。誰も我を見て無益に終わることはない。

Verse 77

वरं वरय तस्मात् त्वं यथाभिमतम् आत्मनः सर्वं संपद्यते पुंसां मयि दृष्टिपथं गते

ゆえに汝は願いの賜物を選べ—己が心の最も望むものを。われが人の視界に現れるとき、ただ拝見するだけで一切の目的は成就する。

Verse 78

भगवन् सर्वभूतेश सर्वस्यास्ते भवान् हृदि किम् अज्ञातं तव स्वामिन् मनसा यन् मयेप्सितम्

ああバガヴァン、万有の主よ。あなたはすべての者の心に住まわれる。主よ、我が心に求めることの何があなたに知られぬであろうか。

Verse 79

तथापि तुभ्यं देवेश कथयिष्यामि यन् मया प्रार्थ्यते दुर्विनीतेन हृदयेनातिदुर्लभम्

それでもなお、神々の主よ、我が願いを申し上げよう。されどそれは得難い。なぜなら我が心はいまだ鍛えられていないからである。

Verse 80

किं वा सर्वजगत्स्रष्टः प्रसन्ने त्वयि दुर्लभम् त्वत्प्रसादफलं भुङ्क्ते त्रैलोक्यं मघवान् अपि

万界の創造主よ、あなたが慈悲深くあられるなら、何が得難いであろうか。マガヴァーン(インドラ)さえ三界を享受するのは、あなたの恩寵の果による。

Verse 81

नैतद् राजासनं योग्यम् अजातस्य ममोदरात् इति गर्वाद् अवोचन् मां सपत्नी मातुर् उच्चकैः

「この王座は、わが胎より生まれぬ者にはふさわしくない!」—そう傲慢にも、母の共妻は声高に言い放ち、我を辱めた。

Verse 82

आधारभूतं जगतः सर्वेषाम् उत्तमोत्तमम् प्रार्थयामि प्रभो स्थानं त्वत्प्रसादाद् अतो ऽव्ययम्

主よ、ただ御慈悲によって、我はその不滅の境地を願い奉る。万の至上の中の至上にして、全宇宙の拠り所たる御座を。

Verse 83

यत् त्वया प्रार्थितं स्थानम् एतत् प्राप्स्यति वै भवान् त्वयाहं तोषितः पूर्वम् अन्यजन्मनि बालक

汝が祈り求めたその境地は、まことに汝が得るであろう。幼子よ、前の生においても汝は我を喜ばせた。

Verse 84

त्वम् आसीर् ब्राह्मणः पूर्वं मय्य् एकाग्रमतिः सदा मातापित्रोश् च शुश्रूषुर् निजधर्मानुपालकः

かつて汝はバラモンであった。心は常に我に一念に帰し、父母に仕え、己がスヴァダルマを堅く守っていた。

Verse 85

कालेन गच्छता मित्रं राजपुत्रस् तवाभवत् यौवने ऽखिलभोगाढ्यो दर्शनीयोज्ज्वलाकृतिः

時が移り、友よ、汝の子—王子—は若さに至った。あらゆる享楽に恵まれ、姿は輝き、見る者を魅了する美しさであった。

Verse 86

तत्सङ्गात् तस्य ताम् ऋद्धिम् अवलोक्यातिदुर्लभाम् भवेयं राजपुत्रो ऽहम् इति वाञ्छा त्वया कृता

彼と交わり、その稀有なる繁栄を目にして、汝は願いを起こした。「我も王子、王の子となりたい」と。

Verse 87

ततो यथाभिलषिता प्राप्ता ते राजपुत्रता उत्तानपादस्य गृहे जातो ऽसि ध्रुव दुर्लभे

それゆえ、まことに稀なるドゥルヴァよ、汝の望んだ王子の位は成就した。汝はウッターナパーダ王の家に生まれたのである。

Verse 88

अन्येषां तद् वरं स्थानं कुले स्वायम्भुवस्य यत्

他の者たちにとっては、それこそが最上の境地とされる――スヴァーヤンブヴァ・マヌの系統に連なることである。

Verse 89

तस्यैतद् अपरं बाल येनाहं परितोषितः माम् आराध्य नरो मुक्तिम् अवाप्नोत्य् अविलम्बितम्

さらに、幼子よ、これこそ我が全き歓喜となる至上の秘奥である。われを礼拝する者は、遅滞なく解脱を得る。

Verse 90

मय्य् अर्पितमना बाल किम् उ स्वर्गादिकं पदम् त्रैलोक्याद् अधिके स्थाने सर्वताराग्रहाश्रयः भविष्यति न संदेहो मत्प्रसादाद् भवान् ध्रुव

幼子よ、心をことごとく我に捧げた汝に、天界の位など何の要があろうか。我が恩寵により、ドゥルヴァよ、疑いはない。汝は三界を超える境地に至り、あらゆる星辰と惑星の堅固なる支え、帰依処となる。

Verse 91

सूर्यात् सोमात् तथा भौमात् सोमपुत्राद् बृहस्पतेः सितार्कतनयादीनां सर्वर्क्षाणां तथा ध्रुव

太陽より、月より、また火星より;月の子(=水星)とブリハスパティ(=木星)より;シーターの子(=金星)とアルカの子(=土星)より、さらにすべての星宿に至るまで――ドゥルヴァよ、汝はその秩序の不動の枢軸として立つ。

Verse 92

सप्तर्षीणाम् अशेषाणां ये च वैमानिकाः सुराः सर्वेषाम् उपरि स्थानं तव दत्तं मया ध्रुव

余は、余すところなき七聖仙の上に、また空中のヴィマーナに遊ぶ天神らの上に、汝ドゥルヴァよ、彼らすべてを超える至高の座を授けた。

Verse 93

केचिच् चतुर्युगं यावत् केचिन् मन्वन्तरं सुराः तिष्ठन्ति भवतो दत्ता मया वै कल्पसंस्थितिः

ある神々は四ユガの周期のあいだ存し、ある者は一マヌヴァンタラのあいだ存する。これがカルパにおける彼らの位の定められた期間であり、余が汝に告げた法である。

Verse 94

सुनीतिर् अपि ते माता त्वदासन्नातिनिर्मला विमाने तारका भूत्वा तावत्कालं निवत्स्यति

また汝の母スニーティも、汝に近侍してことごとく清浄となり、天のヴィマーナに住して光り輝く星となり、その同じ期間そこに留まるであろう。

Verse 95

ये च त्वां मानवाः प्रातः सायं च सुसमाहिताः कीर्तयिष्यन्ति तेषां च महत् पुण्यं भविष्यति

また、人々が朝夕に心をよく収めて汝を讃嘆し称名するならば、彼らにはまことに大いなる功徳が生ずる。

Verse 96

एवं पूर्वं जगन्नाथाद् देवदेवाज् जनार्दनात् वरं प्राप्य ध्रुवं स्थानम् अध्यास्ते स महामतिः

かくして遠き昔、宇宙の主にして神々の神ジャナールダナより恩寵の願いを受けた大心のドゥルヴァは、「ドゥルヴァ」と名づく不動の位を得て、今なおその不変の界に鎮座している。

Verse 97

तस्याभिमानम् ऋद्धिं च महिमानं निरीक्ष्य च देवासुराणाम् आचार्यः श्लोकम् अत्रोशना जगौ

その驕りと増しゆく繁栄、そして威容を見て、天と阿修羅の師シュクラは、ここに戒めの詩句を唱えた。

Verse 98

अहो ऽस्य तपसो वीर्यम् अहो ऽस्य तपसः फलम् यद् एनं पुरतः कृत्वा ध्रुवं सप्तर्षयः स्थिताः

ああ、その苦行の力よ、ああ、その修行の果よ。七仙はドゥルヴァを前に据え、彼とともに立ち、彼を先頭の標としている。

Verse 99

ध्रुवस्य जननी चेयं सुनीतिर् नाम सूनृता अस्याश् च महिमानं कः शक्तो वर्णयितुं भुवि

この方こそドゥルヴァの母、名をスニーティという。真実に堅く、言葉も気高い。地上の誰がその偉大さを尽くして語れようか。

Verse 100

त्रैलोक्याश्रयतां प्राप्तं परं स्थानं स्थिरायति स्थानं प्राप्ता परं कृत्वा या कुक्षिविवरे ध्रुवम्

三界の拠り所となる至高の位を得て、彼はそこに不動の安定をもって住する。その最高境地に達し、彼はドゥルヴァ—揺るがぬ軸—として宇宙の中心に据えられ、万有の支えとなった。

Verse 101

यश् चैतत् कीर्तयेन् नित्यं ध्रुवस्यारोहणं दिवि सर्वपापविनिर्मुक्तः स्वर्गलोके महीयते

このドゥルヴァの天上への昇りの物語を常に唱える者は、あらゆる罪を離れ、天界において尊ばれる。

Verse 102

स्थानभ्रंशं न चाप्नोति दिवि वा यदि वा भुवि सर्वकल्याणसंयुक्तो दीर्घकालं च जीवति

彼は正当な位を失わない—天にあろうと地にあろうと。あらゆる吉祥を具え、久しく生きる。

Frequently Asked Questions

Dhruva’s tapas generates a spiritual ‘heat’ that affects cosmic order; fearing loss of their stations, the devas deploy māyā to create vighnas. The narrative teaches that even divine powers are subordinate to Hari and that true absorption in Govinda makes such disturbances a-sensory (not grasped by the indriyas).

Dhruva-sthāna is the imperishable, exalted station granted by Viṣṇu—higher than the three worlds and even above the Saptarṣis—functioning as a fixed cosmic pivot (support for grahas, tārās, and nakṣatras) and as a theological symbol of steadfast bhakti rewarded by divine grace.