Yogatattva
यथेष्टवायुधारणाद्वायोः सिद्ध्येत् केवलकुम्भकः । केवले कुम्भके सिद्धे रेचपूरविवर्जिते ॥
न तस्य दुर्लभं किञ्चित् त्रिषु लोकेषु विद्यते । प्रस्वेदो जायते पूर्वं मर्दनं तेन कारयेत् ॥
ततोऽपि धारणाद्वायोः क्रमेणैव शनैः शनैः । कम्पो भवति देहस्य आसनस्थस्य देहिनः ॥
ततोऽधिकतराभ्यासाद् दार्दुरी स्वेन जायते । यथा च दर्दुरो भाव उत्प्लुत्योत्प्लुत्य गच्छति ॥
पद्मासनस्थितो योगी तथा गच्छति भूतले । ततोऽधिकतराभ्यासाद् भूमित्यागश्च जायते ॥
यथा-इष्ट-वायु-धारणात् । वायोः सिद्ध्येत् केवल-कुम्भकः । केवले कुम्भके सिद्धे । रेच-पूर-विवर्जिते ॥
न । तस्य । दुर्लभम् । किञ्चित् । त्रिषु । लोकेषु । विद्यते । प्र-स्वेदः । जायते । पूर्वम् । मर्दनम् । तेन । कारयेत् ॥
ततः अपि । धारणात् । वायोः । क्रमेण एव । शनैः शनैः । कम्पः । भवति । देहस्य । आसन-स्थस्य । देहिनः ॥
ततः । अधिक-तर-अभ्यासात् । दार्दुरी । स्वेन । जायते । यथा । च । दर्दुरः । भावः । उत्प्लुत्य-उत्प्लुत्य । गच्छति ॥
पद्म-आसन-स्थितः । योगी । तथा । गच्छति । भू-तले । ततः । अधिक-तर-अभ्यासात् । भूमि-त्यागः । च । जायते ॥
yatheṣṭavāyudhāraṇād vāyoḥ siddhyet kevalakumbhakaḥ | kevale kumbhake siddhe recapūravivarjite ||
na tasya durlabhaṃ kiñcit triṣu lokeṣu vidyate | prasvedo jāyate pūrvaṃ mardanaṃ tena kārayet ||
tato’pi dhāraṇād vāyoḥ krameṇaiva śanaiḥ śanaiḥ | kampo bhavati dehasya āsanasthasya dehinaḥ ||
tato’dhikatarābhyāsād dārdurī svena jāyate | yathā ca darduro bhāva utplutyotplutya gacchati ||
padmāsanasthito yogī tathā gacchati bhūtale | tato’dhikatarābhyāsād bhūmityāgaś ca jāyate ||
望むままに息(ヴァーユ)を保持することによって、生命気の「ケーヴァラ・クンバカ」(絶対的・自発的な止息)が成就する。吐くことも吸うことも離れたケーヴァラ・クンバカが完成するとき、三界において彼に得難いものは何もない。まず汗が生じ、ついでそれを用いて身体を摩擦し按摩すべきである。さらに生命気の保持を重ねると、次第に、少しずつ、坐法に坐する行者の身体に震えが起こる。さらに修習が深まると、「蛙のごとき」(ダーrdurī)動きが自ずから現れる。蛙が跳び跳びに進むように、蓮華坐に坐するヨーギーも地上を移動する。なお一層の修習により、「地を離れること」(浮揚)もまた生ずる。
By holding the breath (vāyu) as one wishes, the ‘kevala-kumbhaka’ (spontaneous/absolute retention) of the vital air is accomplished. When kevala-kumbhaka is perfected—free from exhalation and inhalation—nothing is unattainable for him in the three worlds. First, perspiration arises; then one should have the body massaged with that. Then, from further retention of the vital air, gradually, little by little, trembling of the body occurs for the embodied one seated in posture. Then, from still greater practice, the ‘frog-like’ (dārdurī) movement arises of itself: just as a frog moves by repeatedly leaping, so the yogin seated in padmāsana moves upon the ground. From still greater practice, ‘leaving the ground’ (levitation) also arises.