Niralamba
ब्रह्मैव स्वशक्तिं प्रकृत्यभिधेयामाश्रित्य लोकान् सृष्ट्वा प्रविश्यान्तर्यामित्वेन ब्रह्मादीनां बुद्धीन्द्रियनियन्तृत्वाद् ईश्वरः॥ जीव इति च ब्रह्मविष्ण्वीशानेन्द्रादीनां नामरूपद्वारा स्थूलोऽहमिति मिथ्याध्यासवशाज् जीवः। सोऽहमेकोऽपि देहारम्भकभेदवशाद् बहुजीवः॥५॥
ब्रह्म । एव । स्व-शक्तिम् । प्रकृतिअभिधेयाम् । आश्रित्य । लोकान् । सृष्ट्वा । प्रविश्य । अन्तर्यामित्वेन । ब्रह्म-आदीनाम् । बुद्धि-इन्द्रिय-नियन्तृत्वात् । ईश्वरः ॥ जीवः । इति । च । ब्रह्म-विष्णु-ईशान-इन्द्र-आदीनाम् । नाम-रूप-द्वारा । स्थूलः । अहम् । इति । मिथ्या-अध्यास-वशात् । जीवः । सः । अहम् । एकः । अपि । देह-आरम्भक-भेद-वशात् । बहु-जीवः ॥५॥
brahmaiva svaśaktiṃ prakṛty-abhidheyām āśritya lokān sṛṣṭvā praviśyāntaryāmitvena brahmādīnāṃ buddhīndriya-niyantṛtvād īśvaraḥ॥ jīva iti ca brahma-viṣṇv-īśānendrādīnāṃ nāmarūpa-dvārā sthūlo 'ham iti mithyādhyāsa-vaśāj jīvaḥ। so 'ham eko 'pi dehārambhaka-bheda-vaśād bahujīvaḥ॥5॥
ブラフマンのみが、自らの力である「プラクリティ」に依って諸世界を創り、そこへ入り、内なる統御者(アンタリヤーミン)としてブラフマーらの知性と諸感官を制御するがゆえに「イーシュヴァラ」と呼ばれる。また「ジーヴァ」とは、ブラフマー、ヴィシュヌ、イーシャーナ、インドラ等の名と形を媒介として、「私は粗大な身体である」という虚妄の重ね合わせ(アディヤーサ)によって成立する呼称である。「我」は本来一つであるのに、身体とその構成の差異により多くのジーヴァとして現れる。
Brahman alone, resorting to Its own power called Prakṛti, having created the worlds and entered (them), is Īśvara by virtue of being the inner ruler and the controller of the intellect and senses of Brahmā and the others. And ‘jīva’ is (so called) due to false superimposition—through name and form such as Brahmā, Viṣṇu, Īśāna, Indra, and the rest—(thinking) ‘I am the gross (body).’ Though the ‘I’ is one, it becomes many jīvas owing to differences in the bodies and their constituent beginnings.