Kshurika
पादस्योपरि यन्मध्ये तद्रूपं नाम कृन्तयेत् । मनोद्वारेण तीक्ष्णेन योगमाश्रित्य नित्यशः ॥ इन्द्रवज्र इति प्रोक्तं मर्मजङ्घानुकीर्तनम् । तद्ध्यानबलयोगेन धारणाभिर्निकृन्तयेत् ॥ ऊर्वोर्मध्ये तु संस्थाप्य मर्मप्राणविमोचनम् । चतुरभ्यासयोगेन छिन्देद् अनभिशङ्कितः ॥१२॥
पादस्य । उपरि । यत् । मध्ये । तत्-रूपम् । नाम । कृन्तयेत् । मनः-द्वारेण । तीक्ष्णेन । योगम् । आश्रित्य । नित्यशः ॥ इन्द्र-वज्रः । इति । प्रोक्तम् । मर्म-जङ्घा-अनुकीर्तनम् ॥ तत्-ध्यान-बल-योगेन । धारणाभिः । निकृन्तयेत् ॥ ऊर्वोः । मध्ये । तु । संस्थाप्य । मर्म-प्राण-विमोचनम् ॥ चतुः-अभ्यास-योगेन । छिन्देत् । अनभिशङ्कितः ॥
pādasyopari yanmadhye tadrūpaṃ nāma kṛntayet | manodvāreṇa tīkṣṇena yogam āśritya nityaśaḥ || indravajra iti proktaṃ marmajaṅghānukīrtanam | tad-dhyānabala-yogena dhāraṇābhir nikṛntayet || ūrvormadhye tu saṃsthāpya marma-prāṇa-vimocanam | caturabhyāsa-yogena chinded anabhiśaṅkitaḥ ||12||
足の上方、その中ほどにおいて、鋭い心の門をもって、常にヨーガに依りつつ、そこにある「名と形」を断ち切れ。ふくらはぎのマルマは「インドラの金剛(雷霆)」と説かれる。観想の力のヨーガにより、ダーラナー(集中)の働きによってそれを断て。さらに両腿の中ほどに意識を据え、マルマにおいてプラーナを解き放つその点を、四種の修習のヨーガによって、ためらいなく断ち切れ。
In the middle above the foot, one should cut the ‘name-and-form’ there, by the sharp doorway of the mind, resorting to yoga constantly. The vital point (marma) at the calf is declared to be called ‘Indra’s thunderbolt’; by the yoga of the strength of meditation, one should cut (it) by acts of concentration (dhāraṇās). Placing (attention) in the middle of the thighs—(a point) that releases the vital energy at the marma—by the yoga of fourfold practice, one should cut, without hesitation.