Kshurika
ततो रक्तोत्पलाभासं पुरुषायतनं महत् । दहरं पुण्डरीकं तद्वेदान्तेषु निगद्यते ॥ तद्भित्त्वा कण्ठमायाति तां नाडीं पूरयन् यतः । मनसस्तु क्षुरं गृह्य सुतीक्ष्णं बुद्धिनिर्मलम् ॥११॥
ततः । रक्त-उत्पल-आभासम् । पुरुष-आयतनम् । महत् । दहरम् । पुण्डरीकम् । तत् । वेदान्तेषु । निगद्यते ॥ तत् । भित्त्वा । कण्ठम् । आयाति । ताम् । नाडीम् । पूरयन् । यतः ॥ मनसः । तु । क्षुरम् । गृह्य । सु-तीक्ष्णम् । बुद्धि-निर्मलम् ॥
tato raktotpalābhāsaṃ puruṣāyatanaṃ mahat | daharaṃ puṇḍarīkaṃ tad vedānteṣu nigadyate || tad bhittvā kaṇṭham āyāti tāṃ nāḍīṃ pūrayan yataḥ | manasas tu kṣuraṃ gṛhya su-tīkṣṇaṃ buddhi-nirmalam ||11||
次に、赤い蓮華に似たプルシャの大いなる住処――ヴェーダーンタに説かれる小蓮華――がある。それを貫けば、喉に至り、そこからそのナーディーを満たす。心を剃刀として取り、甚だ鋭く、 बुद्धि(ブッディ)により浄められたものとして、さらに進む。
Then (there is) the great abode of the Person, resembling a red lotus—the small lotus spoken of in the Vedāntas. Having pierced it, (one) reaches the throat, filling that nāḍī from there. Taking the mind as a razor, exceedingly sharp and purified by the intellect (one proceeds).