HomeUpanishadsJaabaalVerse 2
Previous Verse
Next Verse

Verse 2

Jaabaal

अथ हैनमत्रिः पप्रच्छ याज्ञवल्क्यं—य एषोऽनन्तोऽव्यक्त आत्मा तं कथमहं विजानीयामिति॥ स होवाच याज्ञवल्क्यः—सोऽविमुक्त उपास्यो य एषोऽनन्तोऽव्यक्त आत्मा सोऽविमुक्ते प्रतिष्ठित इति॥ सोऽविमुक्तः कस्मिन्प्रतिष्ठित इति। वरणायां नाश्यां च मध्ये प्रतिष्ठित इति॥ का वै वरणा का च नाशीति। सर्वानिन्द्रियकृतान्दोषान्वारयतीति तेन वरणा भवति। सर्वानिन्द्रियकृतान्पापान्नाशयतीति तेन नाशी भवतीति॥ कतमं चास्य स्थानं भवतीति। भ्रुवोर्घ्राणस्य च यः सन्धिः स एष द्यौर्लोकस्य परस्य च सन्धिर्भवतीति। एतद्वै सन्धिं सन्ध्यां ब्रह्मविद उपासत इति। सोऽविमुक्त उपास्य इति। सोऽविमुक्तं ज्ञानमाचष्टे—यो वैतदेवं वेदेति॥२॥

अथ । ह । एनम् । अत्रिः । पप्रच्छ । याज्ञवल्क्यम् । यः । एषः । अनन्तः । अव्यक्तः । आत्मा । तम् । कथम् । अहम् । विजानीयाम् । इति । सः । ह । उवाच । याज्ञवल्क्यः । सः । अविमुक्तः । उपास्यः । यः । एषः । अनन्तः । अव्यक्तः । आत्मा । सः । अविमुक्ते । प्रतिष्ठितः । इति । सः । अविमुक्तः । कस्मिन् । प्रतिष्ठितः । इति । वरणायाम् । नाश्याम् । च । मध्ये । प्रतिष्ठितः । इति । का । वै । वरणा । का । च । नाशी । इति । सर्वान् । इन्द्रिय-कृतान् । दोषान् । वारयति । इति । तेन । वरणा । भवति । सर्वान् । इन्द्रिय-कृतान् । पापान् । नाशयति । इति । तेन । नाशी । भवति । इति । कतमम् । च । अस्य । स्थानम् । भवति । इति । भ्रुवोः । घ्राणस्य । च । यः । सन्धिः । सः । एषः । द्यौः-लोकस्य । परस्य । च । सन्धिः । भवति । इति । एतत् । वै । सन्धिम् । सन्ध्याम् । ब्रह्म-विदः । उपासते । इति । सः । अविमुक्तः । उपास्यः । इति । सः । अविमुक्तम् । ज्ञानम् । आचष्टे । यः । वै । तत् । एवम् । वेद । इति ॥ २ ॥

atha hainam atriḥ papraccha yājñavalkyaṃ—ya eṣo'nanto'vyakta ātmā taṃ katham ahaṃ vijānīyām iti || sa hovāca yājñavalkyaḥ—so'vimukta upāsyo ya eṣo'nanto'vyakta ātmā so'vimukte pratiṣṭhita iti || so'vimuktaḥ kasmin pratiṣṭhita iti | varaṇāyāṃ nāśyāṃ ca madhye pratiṣṭhita iti || kā vai varaṇā kā ca nāśī iti | sarvān indriyakṛtān doṣān vārayatīti tena varaṇā bhavati | sarvān indriyakṛtān pāpān nāśayatīti tena nāśī bhavatīti || katamaṃ cāsya sthānaṃ bhavatīti | bhruvor ghrāṇasya ca yaḥ sandhiḥ sa eṣa dyaurlokasya parasya ca sandhir bhavatīti | etad vai sandhiṃ sandhyāṃ brahmavida upāsata iti | so'vimukta upāsya iti | so'vimuktaṃ jñānam ācāṣṭe—yo vai tad evaṃ vedeti ||2||

ついでアトリはヤージュニャヴァルキヤに問うた。「この無限で、未顕現のアートマンを、私はいかにして知るべきでしょうか。」ヤージュニャヴァルキヤは言った。「アヴィムクタこそ観想されるべきである。この無限で未顕現のアートマンはアヴィムクタに安立している。」(アトリは問うた。)「アヴィムクタは何に安立しているのですか。」(彼は答えた。)「ヴァラナーとナーシーの間に安立している。」(アトリは問うた。)「ヴァラナーとは何であり、ナーシーとは何ですか。」(彼は答えた。)「諸感官によって生じるあらゆる過失を遮るゆえにヴァラナーと呼ばれ、諸感官によって生じるあらゆる罪を滅するゆえにナーシーと呼ばれる。」(アトリは問うた。)「その場所はどこですか。」(彼は答えた。)「眉間と鼻との結節である。そこは天界と彼岸の世界との結節である。」これこそ「結節(サンディ)」であり、ブラフマンを知る者たちが修する「黄昏の観想(サンディヤー)」である。アヴィムクタは観想されるべきである。彼はこのようにアヴィムクタの智を説く—このように知る者は(知る)。

Then Atri asked Yājñavalkya: ‘This infinite, unmanifest Self—how may I know it?’ Yājñavalkya said: ‘That Avimukta is to be meditated upon—this infinite, unmanifest Self is established in Avimukta.’ (Atri asked:) ‘On what is Avimukta established?’ (He replied:) ‘It is established between Varaṇā and Nāśī.’ (Atri asked:) ‘What indeed is Varaṇā and what is Nāśī?’ (He replied:) ‘Because it wards off all faults produced by the senses, therefore it is Varaṇā; because it destroys all sins produced by the senses, therefore it is Nāśī.’ (Atri asked:) ‘And what is its location?’ (He replied:) ‘The junction of the eyebrows and the nose—this is the junction of the heavenly world and the world beyond.’ This, indeed, is the “junction” (sandhi), the “twilight-meditation” (sandhyā), which knowers of Brahman meditate upon. That Avimukta is to be meditated upon. He thus teaches the knowledge of Avimukta—whoever knows it thus (knows).

Ātman as ananta/avyakta; inner Avimukta as sandhi (liminal point) and upāsanā leading to jñānaMahavakya: Indirect: reinforces ‘ayam ātmā brahma’ (Self as Brahman) by identifying the infinite unmanifest Self as the object of realization; also supports ‘prajñānaṃ brahma’ insofar as realization is through inner contemplative knowing rather than external rite.YajurŚukla (Vājasaneyī) Yajurveda ShakhaChandas: Prose