HomeUpanishadsAkshiVerse 35
Previous Verse
Next Verse

Verse 35

Akshi

भूमिकात्रितयं जाग्रत् चतुर्थी स्वप्न उच्यते॥ चित्तं तु शरदभ्रांशविलयं प्रविलीयते। सत्त्वावशेष एवास्ते पञ्चमीं भूमिकां गतः॥ जगद्विकल्पो नोदेति चित्तस्यात्र विलापनात्। पञ्चमीं भूमिकामेत्य सुषुप्तपदनामिकाम्। शान्ताशेषविशेषांशस्तिष्ठत्यद्वैतमात्रकः॥ गलितद्वैतनिर्भासो मुदितोऽतःप्रबोधवान्। सुषुप्तमन एवास्ते पञ्चमीं भूमिकां गतः॥ अन्तर्मुखतया तिष्ठन् बहिर्वृत्तिपरोऽपि सन्। परिश्रान्ततया नित्यं निद्रालुरिव लक्ष्यते॥ कुर्वन्नभ्यासमेतस्यां भूमिकायां विवासनः। षष्ठीं तुर्याभिधामन्यां क्रमात् पतति भूमिकाम्॥ यत्र नासन्नसद्रूपो नाहं नाप्यहंकृतिः। केवलं क्षीणमननमास्तेऽद्वैतेऽतिनिर्भयः॥ निर्ग्रन्थिः शान्तसन्देहो जीवन्मुक्तो विभावनः। अनिर्वाणोऽपि निर्वाणश्चित्रदीप इव स्थितः॥ षष्ठ्यां भूमावसौ स्थित्वा सप्तमीं भूमिमाप्नुयात्॥

भूमिका-त्रितयम् । जाग्रत् । चतुर्थी । स्वप्नः । उच्यते ॥ चित्तम् । तु । शरद्-भ्र-अंश-विलयम् । प्रविलीयते । सत्त्व-अवशेषः । एव । आस्ते । पञ्चमीम् । भूमिकाम् । गतः ॥ जगत्-विकल्पः । न । उदेति । चित्तस्य । अत्र । विलापनात् । पञ्चमीम् । भूमिकाम् । एत्य । सुषुप्त-पद-नामिकाम् । शान्त-अशेष-विशेष-अंशः । तिष्ठति । अद्वैत-मात्रकः ॥ गलित-द्वैत-निर्भासः । मुदितः । अतः । प्रबोधवान् । सुषुप्त-मनः । एव । आस्ते । पञ्चमीम् । भूमिकाम् । गतः ॥ अन्तर्मुखतया । तिष्ठन् । बहिः-वृत्ति-परः । अपि । सन् । परिश्रान्ततया । नित्यम् । निद्रालुः-इव । लक्ष्यते ॥ कुर्वन् । अभ्यासम् । एतस्याम् । भूमिकायाम् । विवासनः । षष्ठीम् । तुर्य-अभिधाम् । अन्याम् । क्रमात् । पतति । भूमिकाम् ॥ यत्र । न । असत्-न-असत्-रूपः । न । अहम् । न । अपि । अहं-कृतिः । केवलम् । क्षीण-मननम् । आस्ते । अद्वैते । अति-निर्भयः ॥ निर्ग्रन्थिः । शान्त-सन्देहः । जीवन्-मुक्तः । विभावनः । अनिर्वाणः । अपि । निर्वाणः । चित्र-दीपः । इव । स्थितः ॥ षष्ठ्याम् । भूमौ । असौ । स्थित्वा । सप्तमीम् । भूमिम् । आप्नुयात् ॥

bhūmikātritayaṃ jāgrat caturthī svapna ucyate॥ cittaṃ tu śarad-bhrāṃśa-vilayaṃ pravilīyate। sattvāvaśeṣa evāste pañcamīṃ bhūmikāṃ gataḥ॥ jagadvikalpo nodeti cittasyātra vilāpanāt। pañcamīṃ bhūmikāmetya suṣuptapadanāmikām। śāntāśeṣaviśeṣāṃśas tiṣṭhaty advaitamātrakaḥ॥ galitadvaitanirbhāso mudito'taḥprabodhavān। suṣuptamana evāste pañcamīṃ bhūmikāṃ gataḥ॥ antarmukhatayā tiṣṭhan bahirvṛttiparo'pi san। pariśrāntatayā nityaṃ nidrālur iva lakṣyate॥ kurvann abhyāsam etasyāṃ bhūmikāyāṃ vivāsanaḥ। ṣaṣṭhīṃ turyābhidhām anyāṃ kramāt patati bhūmikām॥ yatra nāsann asadrūpo nāhaṃ nāpy ahaṃkṛtiḥ। kevalaṃ kṣīṇamananam āste'dvaite'tinirbhayaḥ॥ nirgranthiḥ śāntasandeho jīvanmukto vibhāvanaḥ। anirvāṇo'pi nirvāṇaś citradīpa iva sthitaḥ॥ ṣaṣṭhyāṃ bhūmāv asau sthitvā saptamīṃ bhūmim āpnuyāt॥

三つの位は覚醒、第四は夢と言われる。だが心は秋雲の断片が溶けるように溶解し、サットヴァのみが残滓として残る—これが第五の位である。ここでは心が溶けたゆえ、世界の構成(ヴィカルパ)は起こらない。第五の位「深睡」(スシュプティ)に至り、残る差別が鎮まると、ただ不二として住する。二元の現れが溶け、歓喜してゆえに覚醒し、第五の位の者は深睡のごとき心にとどまる。内向して住しつつ外の働きに従うため、疲労により常に眠気を帯びた者のように見える。この位で修しヴァーサナーを離れると、次第に第六の位—トゥリヤ—へ入る。そこでは有無を超え、「我」も我執の作用もなく、薄らいだ思惟のみが残り、不二に住して全く無畏である。結び目なく疑い静まり、生きながら解脱し観照に明らか—外には滅していないが滅している—彩色された灯火のように安住する。第六に安住して、第七に至り得る。

The triad of stages is called waking; the fourth is said to be dream. But the mind dissolves into a dissolution like fragments of autumn-clouds; only a residue of sattva remains—he has reached the fifth stage. Because the mind is here dissolved, the imagination/construct of the world does not arise. Having reached the fifth stage, named the state of deep sleep, with all remaining particularities pacified, he abides as mere non-duality. With the appearance of duality melted away, joyful and therefore awakened, he remains with a mind like deep sleep, having reached the fifth stage. Remaining inward-turned, though still engaged in outward activity, he is always seen as if drowsy due to exhaustion. Practising in this stage, free from latent impressions, he gradually falls into another stage, the sixth, called ‘the fourth’ (turya). There, he is neither of the form of non-being nor being; neither ‘I’ nor the ego-function; only attenuated mentation remains—he abides in non-duality, utterly fearless. Knotless, doubt stilled, liberated while living, contemplative; though not (externally) extinguished, he is extinction—steady like a painted lamp. Established in the sixth stage, he may attain the seventh stage.

Bhūmikā-s (stages of realization), citta-laya (dissolution of mind), suṣupti-like samādhi, turīya, jīvanmukti, advaitaMahavakya: Indirect: explicates realization of non-duality (advaita) consistent with ‘ayam ātmā brahma’ and ‘tat tvam asi’, but not phrased as a mahāvākya.AtharvaChandas: Mixed/irregular (later Upaniṣadic/śāstraic anuṣṭubh-like śloka style rather than strict Vedic meter)