Akshi
सन्तोषामोदमधुरा प्रथमोदेति भूमिका । भूमिप्रोदितमात्रोऽन्तरमृताङ्कुरिकेव सा ॥ एषा हि परिमृष्टान्तः संन्यासा प्रसवैकभूः । द्वितीयां च तृतीयां च भूमिकां प्राप्नुयात्ततः ॥ श्रेष्ठा सर्वगता ह्येषा तृतीया भूमिकात्र हि । भवति प्रोज्झिताशेषसंकल्पकलनः पुमान् ॥ भूमिकात्रितयाभ्यासादज्ञाने क्षयमागते । समं सर्वत्र पश्यन्ति चतुर्थीं भूमिकां गताः ॥ अद्वैते स्थैर्यमायाते द्वैते च प्रशमं गते । पश्यन्ति स्वप्नवल्लोकं चतुर्थीं भूमिकां गताः ॥
सन्तोष-आमोद-मधुरा । प्रथमा उदेति भूमिका । भूमि-प्रोदित-मात्रः । अन्तरम् । ऋत-अङ्कुरिका-इव । सा ॥ एषा हि । परिमृष्ट-अन्तः । संन्यासा । प्रसव-एक-भूः । द्वितीयाम् च । तृतीयाम् च । भूमिकाम् । प्राप्नुयात् । ततः ॥ श्रेष्ठा । सर्व-गता हि । एषा । तृतीया भूमिका । अत्र हि । भवति । प्रोज्झित-अशेष-संकल्प-कलनः । पुमान् ॥ भूमिका-त्रितय-अभ्यासात् । अज्ञाने । क्षयम् आगते । समम् । सर्वत्र । पश्यन्ति । चतुर्थीम् । भूमिकाम् । गताः ॥ अद्वैते । स्थैर्यम् आयाते । द्वैते च । प्रशमम् गते । पश्यन्ति । स्वप्न-वत् । लोकम् । चतुर्थीम् । भूमिकाम् । गताः ॥
santoṣāmodamadhurā prathamodeti bhūmikā | bhūmiprodītamātro 'ntaramṛtāṅkurikeva sā || eṣā hi parimṛṣṭāntaḥ saṃnyāsā prasavaikabhūḥ | dvitīyāṃ ca tṛtīyāṃ ca bhūmikāṃ prāpnuyāt tataḥ || śreṣṭhā sarvagatā hyeṣā tṛtīyā bhūmikātra hi | bhavati projjhitāśeṣasaṅkalpakalanaḥ pumān || bhūmikātritayābhyāsād ajñāne kṣayam āgate | samaṃ sarvatra paśyanti caturthīṃ bhūmikāṃ gatāḥ || advaite sthairyam āyāte dvaite ca praśamaṃ gate | paśyanti svapnaval lokaṃ caturthīṃ bhūmikāṃ gatāḥ ||
第一の位は、満足(サントーシャ)の歓喜に甘く彩られて起こる。その位が起こるや否や、内には不死の芽のようなものが萌す。これこそ終極に触れ得た出離(サンニャーサ)であり、霊的誕生の唯一の地盤である。そこから第二・第三の位を得るべきである。この第三の位はまことに最勝で遍満し、ここで人は意図の構築をことごとく捨て去る者となる。三位の修習により無明が滅すると、第四の位に至った者は遍く平等を観る。不二(アドヴァイタ)に安住が成り、二元が鎮まると、第四の位に至った者は世界を夢のごとく観る。
The first stage arises, sweet with the joy of contentment; as soon as that stage has arisen, within there is (something) like a sprout of immortality. For this is renunciation whose end has been well-touched, the single ground of (spiritual) birth; from it one should then attain the second and the third stages. This third stage here is indeed excellent and all-pervading; in it the person becomes one who has cast away all constructions of intention. By practice of the three stages, when ignorance has come to destruction, those who have reached the fourth stage see equality everywhere. When steadiness in non-duality has come, and duality has subsided, those who have reached the fourth stage see the world as if a dream.