Aitreya
स एतेन प्राज्ञेनात्मनाऽस्माल्लोकादुत्क्रम्यामुष्मिन्स्वर्गे लोके सर्वान् कामानाप्त्वाऽमृतः समभवत् समभवत् ॥४॥
सः । एतेन । प्राज्ञेन । आत्मना । अस्मात् । लोकात् । उत्क्रम्य । अमुष्मिन् । स्वर्गे । लोके । सर्वान् । कामान् । आप्त्वा । अमृतः । समभवत् । समभवत् ॥४॥
sa etena prājñenātmanā'smāl lokād utkramyāmuṣmin svarge loke sarvān kāmān āptvā'mṛtaḥ samabhavat samabhavat ||4||
彼はこの覚知に満ちた賢きアートマンとともにこの世を去り、天界においてあらゆる願いを得て、不死となった—まことに不死となった。
He, having departed from this world with this wise Self (the conscious Self), and having attained all desires in that heavenly world, became immortal—indeed, he became immortal.