उ॒प॒या॒मगृ॑हीतोऽसि सावि॒त्रो॒ऽसि चनो॒धाश्च॑नो॒धा अ॑सि॒ चनो॒ मयि॑ धेहि । जिन्व॑ य॒ज्ञं जिन्व॑ य॒ज्ञप॑तिं॒ भगा॑य दे॒वाय॑ त्वा सवि॒त्रे
upayā́ma-gṛhī́to ’si sāvitró ’si canodhā́ś canodhā́ asi cáno máyi dhehi | jínva yajñáṃ jínva yajñá-patiṃ bhágāya devā́ya tvā savítre
汝はウパヤーマ(Upayāma)によって取られしもの、サヴィトリに属するもの。汝は歓喜を授ける者——まことに歓喜を授ける者。われに恩寵を置きたまえ。祭儀を奮い立たせよ、祭主を奮い立たせよ。汝を、神バガ(Bhaga)のため、またサヴィトリのために(捧ぐ)。
उप-याम-गृहीतः । असि । सावित्रः । असि । चनो-धाः । चनो-धाः । असि । चनः । मयि । धेहि । जिन्व । यज्ञम् । जिन्व । यज्ञ-पतिम् । भगाय । देवाय । त्वा । सवित्रे ।