यु॒क्ष्वा हि के॒शिना॒ हरी॒ वृष॑णा कक्ष्य॒प्रा । अथा॑ न इन्द्र सोमपा गि॒रामुप॑श्रुतिं चर । उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा षोड॒शिन॑ । ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोड॒शिने॑
yúkṣva hí keśínā hárī vṛ́ṣaṇā kakṣyaprā́ | áthā na indra somapā girā́m úpaśrutiṃ cara | upayā́magṛhīto ’sī́ndrāya tvā ṣoḍaśín | eṣá te yónir índrāya tvā ṣoḍaśíne
まことに、鬣ある二頭の栗毛(harī)を軛につなげ—雄々しき二頭、帯(kakṣyā)をよく備えたものを。しかるのち、インドラ(Indra)よ、ソーマの飲み手(Somapā)よ、われらの讃歌の声を聴くところへ近づけ。汝はウパヤーマ(Upayāma)によって取り上げられ、インドラのためのソーダシン(Ṣoḍaśin)である。これぞ汝の胎(yoni)—インドラのためのソーダシンである。
युक्ष्व । हि । केशिना । हरी । वृषणा । कक्ष्य-प्रा । अथ । नः । इन्द्र । सोम-पाः । गिराम् । उप-श्रुतिम् । चर । उप-याम-गृहीतः । असि । इन्द्राय । त्वा । षोडशिन् । एषः । ते । योनिः । इन्द्राय । त्वा । षोडशिने