को॑ऽसि कत॒मो॒ऽसि॒ कस्या॑सि॒ को नामा॑सि । यस्य॑ ते॒ नामाम॑न्महि॒ यं त्वा॒ सोमे॑नाती॑तृपाम । भूर्भुवः॒ स्वः॒ सुप्र॒जाः प्र॒जाभि॑ः स्याᳪ सु॒वीरो॑ वी॒रैः सु॒पोषः॒ पोषैः॑ ॥
kó ’si katamó ’si kásyāsi kó nā́māsi | yásya te nā́māmanmahi yáṃ tvā sómenātītṛpā́ma | bhū́r bhuváḥ svàḥ suprajā́ḥ prajā́bhiḥ syāṃ suvī́ro vī́raiḥ supóṣaḥ póṣaiḥ ||
汝は誰か。汝はどれなる者か。汝は誰に属するか。汝の名は何か。――その名をわれらが正しく承認した者、ソーマ(Soma)によって汝を十分に満たした者よ。地・空・天(bhūr・bhuvaḥ・svaḥ)において、子孫によりて多産となり、勇士によりて多勇となり、繁栄によりて豊穣となりますように。
कः । अ॒सि॒ । क॒त॒मः । अ॒सि॒ । कस्य॑ । अ॒सि॒ । कः । नाम॑ । अ॒सि॒ । यस्य॑ । ते॒ । नाम॑ । आ॒म॒न्महि॒ । यम् । त्वा॒ । सोमे॑न । अती॑-तृ॒पाम॒ । भूः । भुवः॑ । स्वः॑ । सु॒-प्र॒जाः । प्र॒जाभि॑ः । स्या॒म् । सु॒-वीरः॑ । वी॒रैः । सु॒-पोषः॑ । पोषैः॑ ॥