यस्ते॑ द्र॒प्सः स्कन्द॑ति॒ यस्ते॑ अ॒शुर्ग्राव॑च्युतो धि॒षण॑योरु॒पस्था॑त् । अ॒ध्व॒र्योर्वा॒ परि॑ वा॒ यः प॒वित्रा॒त्तं ते॑ जु॑होमि॒ मन॑सा॒ वष॑ट्कृत॒ं स्वाहा॑ । दे॒वाना॑मु॒त्क्रम॑णमसि ॥
yás te drápsaḥ skándati yás te aśúr grā́va-cyuto dhiṣáṇayor upásthāt | adhvaryór vā pári vā yáḥ pavítrāt táṃ te juhómi mánasā váṣaṭ-kṛtaṃ svā́hā | devā́nām utkrámaṇam asi ||
汝の滴でこぼれ落ちたもの、汝の迅き分で、搾り石より落ちたもの、また二人のディーシャナー(Dhīṣaṇā)の膝元より落ちたもの;あるいはアドヴァリュ(Adhvaryu)の周りで失われたもの、また濾し器パヴィトラ(pavitra)より失われたもの——それを我は心(manas)をもって、ヴァシャト(Vaṣaṭ)にかなうものとして汝のために供え奉る。スヴァーハー(svāhā)!汝は神々の踏み出し(utkramaṇa)である。
यः । ते॒ । द्र॒प्सः । स्कन्द॑ति । यः । ते॒ । अ॒शुः । ग्राव॑-च्युतः । धि॒षण॑योः । उप॒-स्था॑त् । अ॒ध्व॒र्योः । वा॒ । परि॑ । वा॒ । यः । प॒वित्रा॑त् । तम् । ते॒ । जु॒हो॒मि॒ । मन॑सा । वष॑ट्-कृ॒तम् । स्वाहा॑ । दे॒वाना॑म् । उत्-क्रम॑णम् । अ॒सि॒ ॥