उद्दिव॑ᳪ स्तभाना॒न्तरि॑क्षं पृण॒ दृᳪह॑स्व पृथि॒व्याम् द्यु॑ता॒नास्त्वा॑ मारु॒तो मिनो॑तु मि॒त्रावरु॑णौ ध्रु॒वेण॒ धर्म॑णा । ब्र॒ह्म॒वनि॑ त्वा क्षत्र॒वनि॑ रायस्पोष॒वनि॒ पर्यू॑हामि । ब्रह्म॑ दृᳪह क्ष॒त्रं दृ॒ᳪहायु॑र्दृᳪह प्र॒जां दृ॑ᳪह
ud divaṃ stabhānāntarikṣaṃ pṛṇa dṛṃhasva pṛthivyām dyutānāstvā māruto minotu mitrāvaruṇau dhruveṇa dharmaṇā | brahmavani tvā kṣatravani rāyaspoṣavani paryūhāmi | brahma dṛṃha kṣatraṃ dṛṃhāyurdṛṃha prajāṃ dṛṃha
天を支え、中空を満たせ。地の上に堅く立て。輝けるマルト(Marut)よ、汝を築き上げよ。ミトラとヴァルナ(Mitra-Varuṇa)よ、揺るがぬ法(dharma)によって(汝を)確立せよ。ブラフマンの勝利(brahma-vani)として、クシャトラの勝利(kṣatra-vani)として、富と増益の勝利(rāyas-poṣa-vani)として、我は汝を周りに積み固める。ブラフマンを堅固にせよ、クシャトラを堅固にせよ。寿命を堅固にし、子孫を堅固にせよ。
उत् । दि॒वम् । स्त॒भा॒न॒ । अ॒न्तरि॑क्षम् । पृ॒ण॒ । दृᳪह॑स्व । पृ॒थि॒व्याम् । द्यु॑ता॒नाः । त्वा॒ । मा॒रु॒तः । मि॒नो॑तु । मि॒त्रावरु॑णौ । ध्रु॒वेण॑ । धर्म॑णा । ब्र॒ह्म॒वनि॑ । त्वा॒ । क्ष॒त्र॒वनि॑ । राय॑स्-पोष॒वनि॑ । परि॑-ऊ॒हा॒मि॒ । ब्रह्म॑ । दृᳪह॑ । क्ष॒त्रम् । दृᳪह॑ । आयुः॑ । दृᳪह॑ । प्र॒जाम् । दृᳪह॑