इ॒न्द्र॒घो॒षस् त्वा॒ वसु॑भिः पु॒रस्ता॑त् पातु । प्रचे॑तास् त्वा रुद्रैः प॒श्चात् पा॑तु । मनो॑जवास् त्वा पि॒तृभि॑र् दक्षिण॒तः पा॑तु । वि॒श्वक॑र्मा त्वाऽऽदि॒त्यैर् उ॑त्तर॒तः पा॑तु । इ॒दम॒हं त॒प्तं वार् ब॑हि॒र्धा य॒ज्ञान् निḥ सृ॑जामि ॥
índraghoṣas tvā vásubhiḥ purástāt pātu | prácetās tvā rudráiḥ paścā́t pātu | manójavās tvā pitṛ́bhir dakṣiṇatáḥ pātu | viśvákarmā tvā''dityáir uttarátáḥ pātv | idám aháṃ táptaṃ vā́r bahirdhā́ yajñā́n níḥ sṛjāmi ||
インドラの咆哮(Indraghoṣa)が、ヴァス(Vasus)とともに東より汝を護らんことを。先知者(Pracetās)が、ルドラ(Rudras)とともに西より汝を護らんことを。思い疾き者(Manojavā)が、祖霊(Pitṛs)とともに南より汝を護らんことを。ヴィシュヴァカルマン(Viśvakarman)が、アーディティヤ(Ādityas)とともに北より汝を護らんことを。われ今、この熱せられた水を、祭場の外へ、祭儀より離して放つ。
इन्द्र-घोषः । त्वा । वसुभिः । पुरस्तात् । पातु । प्र-चेताः । त्वा । रुद्रैः । पश्चात् । पातु । मनः-जवाः । त्वा । पितृभिः । दक्षिणतः । पातु । विश्व-कर्मा । त्वा । आदित्यैः । उत्तरतः । पातु । इदम् । अहम् । तप्तम् । वाः । बहिः-धा । यज्ञान् । निः । सृजामि ।