या ते॒ धामा॑नि ह॒विषा॒ यज॑न्ति॒ ता ते॒ विश्वा॑ परि॒भूर॑स्तु य॒ज्ञम् । ग॒य॒स्फ़ान॑: प्र॒तर॑णः सु॒वीरोऽवी॑रहा॒ प्र च॑रा सोम॒ दुर्या॑न्
yā́ te dhā́māni ha·víṣā yájanti tā́ te víśvā pari·bhū́r astu ya·jñám | ga·ya·sphā́naḥ pra·táraṇaḥ su·vī́ro’·vī́rahā prá carā soma dúryān
供物によって人々が汝の諸住処を礼拝するならば、そのすべてが汝のために祭祀を周く取り囲むように。ソーマよ、生命に満ちてふくらむ者、前へと渡らしめる者、勇士に富む者、勇士を殺さぬ者よ——進み出て、住まいの内を巡り行け。
या । ते॒ । धामा॑नि । ह॒विषा॑ । यज॑न्ति । ता । ते॒ । विश्वा॑ । परि॒-भूः॑ । अ॒स्तु॒ । य॒ज्ञम् । ग॒य॒स्फ़ानः॑ । प्र॒तर॑णः । सु॒वीरः॑ । अ॒वी॒र॒हा॒ । प्र । च॒र॒ । सो॒म॒ । दुर्या॑न् ।