अ॒भि त्यं दे॒वᳪ स॑वि॒तार॑मो॒ण्यो॒: क॒विक्र॑तु॒मर्चा॑मि स॒त्यस॑वᳪ रत्न॒धाम॒भि प्रि॒यं म॒तिं क॒विम् । ऊ॒र्ध्वा यस्या॒मति॒र्भा अदि॑द्युत॒त्सवी॑मनि॒ हिर॑ण्यपाणिरमिमीत सु॒क्रतु॑: कृ॒पा स्व॑: । प्र॒जाभ्य॑स्त्वा प्र॒जास्त्वा॑ ऽनु॒प्राण॑न्तु प्र॒जास्त्वम॑नु॒प्राणि॑हि
abhí tyáṃ deváṃ savitā́ram oṇyòḥ kavíkratum árcāmi satyásavaṃ ratnadhā́mam abhí priyā́ṃ matíṃ kavím | ūrdhvā́ yasyā́matir bhā́ ádidyutat savī́mani híraṇyapāṇir amimīta sukrátuḥ kṛpā́ svàḥ | prajā́bhyas tvā prajā́s tvā ’nuprā́ṇantu prajā́s tvám anuprā́ṇihi
われは神サヴィタル(Savitar)を讃える。思慮において賢者(kavi)、真なる衝動をもつ者、宝を蔵する者を。われはまた、詩人・先見者(kavi)の愛しき思念を讃える。まっすぐに立つはその意志、その光は道程においてきらめき出でた。黄金の手をもつ善き決意の者は、慈しみの力により天(空)を量り定めた。生きもののために汝を、諸生類よ汝に随い息づけ。汝もまた諸生類に随って息づけ。
अ॒भि । त्यम् । दे॒वम् । स॑वि॒तारम् । ओ॒ण्योः । क॒वि-क्र॑तुम् । अर्चा॑मि । स॒त्य-स॑वम् । रत्न॒-धामम् । अ॒भि । प्रि॒याम् । म॒तिम् । क॒विम् । ऊ॒र्ध्वा । यस्य । आ॒मतिः । भा॒ः । अदि॑द्युतत् । सवी॑मनि । हिर॑ण्य-पाणिः । अ॒मि॒मी॒त । सु॒-क्र॑तुः । कृ॒पा । स्वः । प्र॒जाभ्यः । त्वा । प्र॒जाः । त्वा । अनु॒-प्राण॑न्तु । प्र॒जाः । त्वम् । अनु॒-प्राणि॑हि