चिद॑सि म॒नासि॒ धीर॑सि॒ दक्षि॑णासि क्ष॒त्रिया॑सि य॒ज्ञिया॒स्यदि॑तिरस्युभयतःशी॒र्ष्णी । सा न॒: सुप्रा॑ची॒ सुप्र॑तीच्येधि मि॒त्रस्त्वा॑ प॒दि ब॑ध्नीतां पू॒षाऽध्व॑नस्पा॒त्विन्द्रा॒याध्य॑क्षाय
cíd asi mánāsi dhī́r asi dákṣiṇāsi kṣatríyāsi yajñíyāsy áditir asy ubhayataḥśīrṣṇī́ | sā́ naḥ suprā́cī suprátīcy edhi mítras tvā padí badhnītāṃ pūṣā́dhvanas pātv índrā́yādhyakṣāya
汝は思惟、汝は心、汝は堅固なる慧。汝は祭司への贈与(dakṣiṇā)、汝は王権(kṣatra)。汝は祭祀にふさわしく、汝はアディティ(Aditi)、両方に頭をもつ者。われらのため、前進にも後退にも吉祥であれ。ミトラ(Mitra)が汝を足もとに結びとめよ。プーシャン(Pūṣan)が道を守護せよ、インドラ(Indra)のために—監督者のために。
चित् । असि । मनः । असि । धीरः । असि । दक्षिणा । असि । क्षत्रिया । असि । यज्ञिया । असि । अदितेः । असि । उभयतः-शीर्ष्णी । सा । नः । सु-प्राची । सु-प्रतीची । इधि । मित्रः । त्वा । पदि । बध्नीताम् । पूषा । अध्वनः । पातु । इन्द्राय । अध्य-क्षाय ।