कल्प॑न्तां ते॒ दिश॒स्तुभ्य॒माप॑: शि॒वत॑मा॒स्तुभ्यं॑ भवन्तु॒ सिन्ध॑वः । अ॒न्तरि॑क्षᳪ शि॒वं तुभ्यं॒ कल्प॑न्तां ते॒ दिश॒: सर्वा॑:
kálpantāṃ te díśas túbhyam ā́paḥ śivátamās túbhyaṃ bhavantu síndhavaḥ | antárikṣaṃ śiváṃ túbhyaṃ kálpantāṃ te díśaḥ sárvāḥ
汝のために諸方位(díś)が正しく整えられよ。汝のために水(āpaḥ)は最も吉祥となれ。汝のために河川(síndhavaḥ)は慈しみ深くあれ。汝のために中空(antarikṣa)は吉祥となれ。汝のために一切の方位はことごとく正しく整えられよ。
कल्पन्ताम् । ते । दिशः । तुभ्यम् । आपः । शिवतमाः । तुभ्यम् । भवन्तु । सिन्धवः । अन्तरिक्षम् । शिवम् । तुभ्यम् । कल्पन्ताम् । ते । दिशः । सर्वाः