परं॑ मृत्यो॒ अनु॒ परे॑हि॒ पन्थां॒ यस्ते॑ अ॒न्य इत॑रो देव॒याना॑त् । चक्षु॑ष्मते शृण्व॒ते ते॑ ब्रवीमि॒ मा न॑: प्र॒जाᳪ री॑रिषो॒ मोत वी॒रान्
páraṃ mṛtyór ánu párehi pánthāṃ yás te anyá ítaro devayā́nāt | cákṣuṣmate śṛṇvaté te bravīmi mā́ naḥ prajā́ṃ rīriṣo mótá vīrā́n
死よ、さらに彼方の道を行け——それは汝の道、神々の道(デーヴァヤーナ)とは別の道である。見る者、聞く者たる汝に告げる。われらの子孫を損なうな、われらの勇士をも損なうな。
परम् । मृत्योः । अनु । परेहि । पन्थाम् । यः । ते । अन्यः । इतरः । देवयानात् । चक्षुष्मते । शृण्वते । ते । ब्रवीमि । मा । नः । प्रजाः । रीरिषः । मा । उत । वीरान्