ये ते॒ पन्था॑: सवितः पू॒र्व्यासो॑ऽरे॒णव॒: सुकृ॑ता अ॒न्तरि॑क्षे । तेभि॑र्नो अ॒द्य प॒थिभि॑: सु॒गेभी॒ रक्षा॑ च नो॒ अधि॑ च ब्रूहि देव
yē tē panthāḥ savitaḥ pūrvyāsō ’reṇavaḥ sukr̥tā antarīkṣe | tēbhir nō adya pathibhiḥ sugēbhir rakṣā ca nō adhi ca brūhi dēva ||
サヴィトリ(Savitṛ)よ、あなたのその道は、太古よりのもので、塵なく、空中界(antarikṣa)においてよく整えられた。これら善き道によって、今日われらを守り、さらにわれらの上に言葉を宣し覆いたまえ、神よ。
ये । ते॒ । पन्थाः॑ । स॒वि॒तः । पू॒र्व्यासः॑ । अ॒रे॒णवः॑ । सु॒कृ॒ताः । अ॒न्तरि॑क्षे । तेभिः॑ । नः॒ । अ॒द्य । प॒थिभिः॑ । सु॒गेभिः॑ । रक्षा॑ । च॒ । नः॒ । अधि॑ । च॒ । ब्रू॒हि॒ । दे॒व॒