सोमो॑ धे॒नुᳪ सोमो॒ अर्व॑न्तमा॒शुᳪ सोमो॑ वी॒रं क॑र्म॒ण्यं॒ ददाति । सा॒द॒न्यं॒ विद॒थ्य॒ᳪ स॒भेयं॑ पितृ॒श्रव॑णं॒ यो ददा॑शदस्मै
sómo dhenúṃ sómo árvantam āśúṃ sómo vīráṃ karmaṇyáṃ dádāti | sādányam vidáthyāṃ sabhéyaṃ pitṛśrávaṇaṃ yó dadā́śad asmai ||
ソーマは乳牛を授け、ソーマは疾き駿馬を授け、ソーマは業に堪える勇士を授ける。さらにソーマは、定まれる富、祭儀における名誉、集会における座、そして祖先より伝わる名声を——彼に供献した者に——授けたまう。
सोमः । धेनुम् । सोमः । अर्वन्तम् । आशुम् । सोमः । वीरम् । कर्मण्यम् । ददाति । सादन्यम् । विदथ्यम् । सभेयम् । पितृश्रवणम् । यः । ददाशत् । अस्मै