सिनी॑वालि॒ पृथु॑ष्टुके॒ या दे॒वाना॒मसि॒ स्वसा॑ । जु॒षस्व॑ ह॒व्यमाहु॑तं प्र॒जां दे॑वि दिदिड्ढि नः
sinī́vāli pṛ́thuṣṭuke yā́ devā́nām ási svásā | juṣásva havyám ā́hutaṃ prajā́ṃ devi didiḍḍhi naḥ ||
広き髪束をもつシニーヴァーリー(Sinīvālī)よ、汝は神々の姉妹なり。捧げられた供物を喜び受け給え。女神よ、われらの子孫・生類(prajā)を強め増し給え。
सिनीवालि । पृथु-ष्टुके । या । देवानाम् । असि । स्वसा । जुषस्व । हव्यम् । आ-हुतम् । प्रजाम् । देवि । दिदिड्ढि । नः ।