त्वाᳪ हि म॒न्द्रत॑ममर्कशो॒कैर्व॑वृ॒महे॒ महि॑ न॒: श्रोष्य॑ग्ने । इन्द्रं॒ न त्वा॒ शव॑सा दे॒वता॑ वा॒युं पृ॑णन्ति॒ राध॑सा॒ नृत॑माः
tvā́ṃ hí mandrátamam arkaśokáir vavṛmáhe máhi naḥ śróṣy agne | índraṃ ná tvā śávasā devátā vāyúṃ pṛṇanti rā́dhasā nṛ́tamāḥ ||
われらは讃歌の炎もて汝――最も歓喜を与える者――を選び取った。聞きたまえ、アグニ(Agni)よ、われらの大いなる善のために。勇士たちが施しによって、力あるインドラ(Indra)とヴァーユ(Vāyu)を満たすように、そのように英雄たちは贈り物によって汝を満たす。
त्वाᳪ । हि । म॒न्द्रत॑मम् । अ॒र्क॒शो॒कैः । व॒वृ॒महे॑ । महि॑ । नः । श्रोष्य॑ । अग्ने । इन्द्रम् । न । त्वा॒ । शव॑सा । दे॒वता॑ । वा॒युम् । पृ॑णन्ति । राध॑सा । नृत॑माः ।