त्रीणि॑ त आहुर्दि॒वि बन्ध॑नानि॒ त्रीण्य॒प्सु त्रीण्य॒न्तः स॑मु॒द्रे । उ॒तेव॑ मे॒ वरु॑णश्छन्त्स्यर्व॒न् यत्रा॑ त आ॒हुः प॑र॒मं ज॒नित्र॑म्
trī́ṇi ta āhur diví bándhanāni trī́ṇy apsú trī́ṇy antáḥ samudré | utéva me váruṇaś chantsy arvan yátrā ta āhúḥ paramáṃ jánitram
人々は言う――汝の絆は天に三つ、水に三つ、そして大海の内に三つ。さらに、駿馬(arvan)よ、汝はまさに我がヴァルナ(Varuṇa)を満たすであろう――人々が汝の最高の生誕の地と言う、その所において。
त्रीणि । ते । आहुः । दिवि । बन्धनानि । त्रीणि । अप्सु । त्रीणि । अन्तः । समुद्रे । उत । इव । मे । वरुणः । छन्त्सि । अर्वन् । यत्र । ते । आहुः । परमम् । जनित्रम्