दे॒वो वन॒स्पति॑र्दे॒वमिन्द्रं॑ वयो॒धसं॑ दे॒वो दे॒वम॑वर्धयत् । द्विप॑दा॒ छन्द॑सेन्द्रि॒यं भग॒मिन्द्रे॒ वयो॒ दध॑द्वसु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑
de·vó vanaspátir de·vám índraṁ vayo·dhásaṁ de·vó de·vám avardhayat | dvipádā́ chándasendriyáṁ bhágam índre váyo dádhad vasu·váne vasu·dhéyasya vétu yája
神ヴァナスパティ(Vanaspati)、すなわち林木の主は、活力を確立する神インドラ(Indra)を増大せしめた。ドヴィパダー(Dvipadā)の韻律によって、そのインドラの威力を増し、インドラにバガ(Bhaga:福分)と活力とを据え置き、財を獲得し、富を確立するために——願わくはそれを得よ。汝、祭祀せよ。
दे॒वः । वन॒स्पतिः॑ । दे॒वम् । इन्द्र॑म् । वयः॒धस॑म् । दे॒वः । दे॒वम् । अ॒व॒र्ध॒य॒त् । द्वि॒पदा॑ । छन्द॑सा । इन्द्रि॒यम् । भग॑म् । इन्द्रे॑ । वयः॒ । दध॑त् । वसु॒वने॑ । वसु॒धेय॑स्य । वेतु॑ । यज॑