होता॑ यक्षत्सु॒पेश॑सा सुशि॒ल्पे बृ॑ह॒ती उ॒भे नक्तो॒षासा॒ न द॑र्श॒ते विश्व॒मिन्द्रं॑ वयो॒धस॑म् । त्रि॒ष्टुभं॒ छन्द॑ इ॒हेन्द्रि॒यं प॑ष्ठ॒वाहं॒ गां वयो॒ दध॑द्वी॒तामाज्य॑स्य॒ होत॒र्यज॑
hótā yákṣat supéśasā suśílpe bṛhatī́ ubhé náktoṣásā ná darśaté víśvam índraṃ vayodhásam | triṣṭúbhaṃ chánda ihéndriyáṃ paṣṭhavāháṃ gā́ṃ váyo dádhad vītā́m ā́jyasya hótar yája
ホートリ(Hotṛ)は、麗しく飾られ、巧みに形づくられた偉大なる一対――夜と曙(うしお)――目に現れるものを祭祀して讃えよ。(そして)万有なるインドラ(Indra)、生命力の授与者をもたらせ。ここに韻律はトリシュトゥブ(Triṣṭubh)。ここにインドラの威力あり。背に負う牛と活力を授けつつ、二者よギー(酥油)へ来たれ;ホートリよ、祭れ。
होता । यक्षत् । सुपेशसा । सुशिल्पे । बृहती । उभे । नक्तोषासा । न । दर्शते । विश्वम् । इन्द्रम् । वयोधसम् । त्रिष्टुभम् । छन्दः । इह । इन्द्रियम् । पष्ठवाहम् । गाम् । वयः । दधत् । वीताम् । आज्यस्य । होतः । यज