तन्नो॒ वातो॑ मयो॒भु वा॑तु भेष॒जं तन्मा॒ता पृ॑थि॒वी तत्पि॒ता द्यौ॑: । तद् ग्रावा॑णः सोम॒सुतो॑ मयो॒भुव॒स्तद॑श्विना शृणुतं धिष्ण्या यु॒वम्
tán no vā́to mayobhú vātu bheṣajáṃ tán mātā́ pṛthivī́ tát pitā́ dyáuḥ | tád grā́vāṇaḥ somasúto mayobhúvas tád aśvínā śṛṇutaṃ dhiṣṇyā yuvám
われらのために、福をもたらす風よ、薬となって吹け。母なる大地、父なる天よ、かくあれ。搾り石よ、搾られたソーマ(Soma)よ、福をもたらすものとして、かくあれ。聞きたまえ、アシュヴィン(Aśvin)よ、堅固なる者たちよ、二柱の汝らよ。
तत् । नः॒ । वातः॑ । मयः॒-भुः । वा॒तु । भे॒ष॒जम् । तत् । मा॒ता । पृ॒थि॒वी । तत् । पि॒ता । द्यौः॑ । तत् । ग्रावा॑णः । सोम॒-सुतः॑ । मयः॒-भुवः॑ । तत् । अ॒श्विना॑ । शृ॒णु॒तम् । धि॒ष्ण्या । यु॒वम्