उ॒न्न॒त ऋ॑ष॒भो वा॑म॒नस्त ऐ॑न्द्रवैष्ण॒वा उ॑न्न॒तः शि॑तिबा॒हुः शि॑तिपृ॒ष्ठस्त ऐ॑न्द्राबार्हस्प॒त्याः शुक॑रूपा वाजि॒नाः क॒ल्माषा॑ आग्निमारु॒ताः श्या॒माः पौ॒ष्णा:
unnatá ṛṣabhó vāmanás ta aindravaiṣṇavā́ unnatáḥ śitibāhúḥ śitipṛṣṭhás ta aindrābārhaspatyā́ḥ śukárūpā vājínaḥ kalmā́ṣā agnimārutā́ḥ śyāmā́ḥ pauṣṇā́ḥ
高く隆起せるもの、牡牛なるもの、また小さきもの—これらはインドラとヴィシュヌ(Indra–Viṣṇu)に属す。高く隆起し、腕白く、背白きもの—これらはインドラとブリハスパティ(Indra–Bṛhaspati)に属す。猪の形をなすものは、俊力あるもの。斑のあるものはアグニとマルト(Agni–Maruts)に属し、黒きものはプーシャン(Pūṣan)に属す。
उन्नतः । ऋषभः । वामनः । ते । ऐन्द्र-वैष्णवाः । उन्नतः । शिति-बाहुः । शिति-पृष्ठः । ते । ऐन्द्रा-बार्हस्पत्याः । शुक-रूपाः । वाजिनः । कल्माषाः । आग्नि-मारुताः । श्यामाः । पौष्णाः ।