अ॒द्भ्यः स्वाहा॑ वा॒र्भ्यः स्वाहो॑द॒काय॒ स्वाहा॒ तिष्ठ॑न्तीभ्य॒: स्वाहा॒ स्रव॑न्तीभ्य॒: स्वाहा॒ स्यन्द॑मानाभ्य॒: स्वाहा॒ कूप्या॑भ्य॒: स्वाहा॒ सूद्या॑भ्य॒: स्वाहा॒ धार्या॑भ्य॒: स्वाहा॑ ऽर्ण॒वाय॒ स्वाहा॑ समु॒द्राय॒ स्वाहा॑ सरि॒राय॒ स्वाहा॑
adbhyáḥ svāhā́ vā́rbhyaḥ svāhó dakā́ya svāhā́ tíṣṭhantībhyaḥ svāhā́ srávantībhyaḥ svāhā́ syándamānābhyaḥ svāhā́ kū́pyābhyaḥ svāhā́ sū́dyābhyaḥ svāhā́ dhā́ryābhyaḥ svāhā́ ’rṇavā́ya svāhā́ samudrā́ya svāhā́ sariráya svāhā́
水たちに供物、スヴァーハー!水の諸相に供物、スヴァーハー!水に供物、スヴァーハー!とどまる水に供物、スヴァーハー!流れる水に供物、スヴァーハー!したたり流れる水に供物、スヴァーハー!井戸の水に供物、スヴァーハー!汲み上げられた水に供物、スヴァーハー!保ち支える水に供物、スヴァーハー!大海(アルナヴァ)に供物、スヴァーハー!海洋(サムドラ)に供物、スヴァーハー!水の身(サリラ)に供物、スヴァーハー!
अद्भ्यः । स्वाहा । वार्भ्यः । स्वाहा । उदकाय । स्वाहा । तिष्ठन्तीभ्यः । स्वाहा । स्रवन्तीभ्यः । स्वाहा । स्यन्दमानाभ्यः । स्वाहा । कूप्याभ्यः । स्वाहा । सूद्याभ्यः । स्वाहा । धार्याभ्यः । स्वाहा । अर्णवाय । स्वाहा । समुद्राय । स्वाहा । सरिराय । स्वाहा ।