स॑मु॒द्रे ते॒ हृद॑यम॒प्स्वन्तः सं त्वा॑ विश॒न्त्वोष॑धीरु॒ताप॑: । सु॒मि॒त्रि॒या न॒ आप॒ ओष॑धयः सन्तु दुर्मित्रि॒यास्तस्मै॑ सन्तु॒ योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः
sāmúdre te hṛ́dayam apsv antáḥ sáṃ tvā viśántv óṣadhīr utā́paḥ | sumitriyā́ na ā́pa óṣadhayaḥ santu durmitriyā́s tásmai santu yó ’smā́n dvéṣṭi yáṃ ca vayáṃ dvíṣmaḥ
汝の心は大海にあり、諸水のうちにある。薬草と水とが、ともに汝のうちに入りゆかんことを。われらにとりて水は善き友となれ、薬草も善き友となれ。されど、われらを憎む者、またわれらが憎む者にとりては、彼らは悪しき友、敵対するものとなれ。
समुद्रे । ते । हृदयम् । अप्सु । अन्तः । सम् । त्वा । विशन्तु । ओषधीः । उत । आपः । सुमित्रियाः । नः । आपः । ओषधयः । सन्तु । दुर्मित्रियाः । तस्मै । सन्तु । यः । अस्मान् । द्वेष्टि । यम् । च । वयम् । द्विष्मः