अस्क॑न्नम॒द्य दे॒वेभ्य॒ आज्य॒ᳪ संभ्रि॑यास॒मङ्घ्र॑णा विष्णो॒ मा त्वाव॑क्रमिषं वसु॑मतीमग्ने ते छा॒यामुप॑स्थेषं॒ विष्णो॒ स्थान॑मसीत इन्द्रो॑ वी॒र्य॒मकृणोदू॒र्ध्वो॑ऽध्व॒र आस्था॑त्
áskannam adyá devébhya ā́jyaṃ saṃbhriyāsam aṅghráṇā viṣṇo mā́ tvā́vakramiṣaṃ vásumatīm agne te chāyā́m upástheṣaṃ viṣṇo sthā́nam asīt índro vīryàm akṛṇod ūrdhvó ’dhvará ā́sthāt
今日、こぼすことなく、神々のために酥油(アージャ)を正しく集め得ますように。ヴィシュヌよ、我が一歩により、汝を踏みつけぬように——この富饒なる地を。アグニよ、汝の蔭に我が身を置かしめたまえ。ヴィシュヌよ、汝はまことに「場(スターナ)」である。インドラは勇力を成し、祭儀は直立して立った。
अस्क॑न्नम् । अ॒द्य । दे॒वेभ्यः॑ । आज्य॑म् । सम्-भ्रि॑यासम् । अङ्घ्र॑णा । विष्णो॒ इति॑ । मा । त्वा । अव॑-क्रमिषम् । वसु॑मतीम् । अ॒ग्ने । ते । छा॒याम् । उप॑-स्थेषम् । विष्णो॒ इति॑ । स्थान॑म् । अ॒सि । इ॒त् । इन्द्रः॑ । वी॒र्य॑म् । अ॒कृ॒णो॒त् । ऊ॒र्ध्वः॑ । अ॒ध्व॒रः । आस्था॑त्