नाना॒ हि वां॑ दे॒वहि॑त॒ᳪ सद॑स्कृ॒तं मा सᳪ सृ॑क्षाथां पर॒मे व्यो॑मन् । सुरा॒ त्वमसि॑ शु॒ष्मिणी॒ सोम॑ ए॒ष मा मा॑ हिᳪसी॒: स्वां योनि॑मावि॒शन्ती॑
nānā́ hí vāṃ deváhitaṃ sádaḥkṛtaṃ mā sáṃ sṛkṣāthāṃ paramé vyòman | surā́ tvám asi śuṣmíṇī sóma eṣá mā mā hiṃsīḥ svā́ṃ yónim āviśántī ||
汝ら二神のうち、神により定められ、サダス(Sadas、祭会の座)のために整えられたものは、まことに別々である。至高の天において、互いに混じり合うな。汝はスラー(Surā、醴酒)、力あるもの。これはソーマ(Soma)である。汝が自らのヨーニ(yoni、胎座)に入るとき、われを害するな。
नाना॑ । हि । वाम् । दे॒व-हि॑तम् । सदः॑-कृ॒तम् । मा । सम् । सृ॑क्षाथाम् । पर॒मे । व्यो॑मन् । सुरा॑ । त्वम् । असि । शु॒ष्मिणी॑ । सोम॑ । ए॒षः । मा । मा॑ । हि॒ᳪसीः । स्वाम् । योनिम् । आ॒-वि॒शन्ती॑ ।