कु॒विद॒ङ्ग यव॑मन्तो॒ यवं॑ चि॒द्यथा॒ दान्त्य॑नुपू॒र्वं वि॒यूय॑ । इ॒हेहै॑षां कृणुहि॒ भोज॑नानि॒ ये ब॒र्हिषो॒ नम॑ उक्तिं॒ यज॑न्ति । उ॒प॒या॒मगृ॑हीतोऽस्य॒श्विभ्यां॑ त्वा॒ सर॑स्वत्यै॒ त्वेन्द्रा॑य त्वा सु॒त्राम्ण॑ ए॒ष ते॒ योनि॒स्तेज॑से त्वा वी॒र्या॒य त्वा॒ बला॑य त्वा
kuvíd aṅga yávamanto yávaṃ cid yáthā dā́nty anupūrváṃ viyū́ya | ihéháiṣāṃ kṛṇuhi bhójanāni yé barhíṣo náma uktíṃ yájanti | upayā́ma-gṛhīto 'sy aśvíbhyāṃ tvā sárasvatyai tvéndrā́ya tvā sutrā́mṇe eṣá te yóniḥ téjase tvā vīryā́ya tvā bálāya tvā ||
大麦に富む者たちが――大麦を施すがごとく、順序正しく分け与えて――ここに、まさにここに、われらに食物を授けますように。彼らはバルヒス(Barhis、祭草)をもって、敬礼の言葉(namas の讃辞)を祭り行う者たちである。これはウパヤーマ(Upayāma)により把持された供物である。アシュヴィン双神(Aśvins)のために汝を、サラスヴァティー(Sarasvatī)のために汝を、善き護り手インドラ(Indra、Sutrāman)のために汝を。これが汝のヨーニ(yoni、胎座)である。光輝(tejas)のために汝を、勇力(vīrya)のために汝を、力(bala)のために汝を。
कु॒विद् । अ॒ङ्ग । यव॑-मन्तः । यव॑म् । चित् । यथा॑ । दान्ति॑ । अनु॒-पू॒र्वम् । वि॒-यूय॑ । इ॒ह । इ॒ह । ए॒षाम् । कृ॒णु॒हि । भोज॑नानि । ये । ब॒र्हिषः॑ । नमः॑ । उ॒क्तिम् । यज॑न्ति । उ॒प॒या॒म-गृ॑हीतः । अ॒सि । अ॒श्विभ्यां॑ । त्वा । सर॑स्वत्यै । त्वा । इन्द्रा॑य । त्वा । सु॒-त्राम्णे॑ । ए॒षः । ते । योनिः॑ । तेज॑से । त्वा । वी॒र्या॒य । त्वा । बला॑य । त्वा ।