बर्हि॑षदः पितर ऊ॒त्य र्वागि॒मा वो॑ ह॒व्या च॑कृमा जु॒षध्व॑म् । त आ ग॒ताव॑सा॒ शन्त॑मे॒नाथा॑ न॒: शं योर॑र॒पो द॑धात
barhíṣadaḥ pitara ūtáye 'rvā́g imā́ vo havyā́ cakrima juṣádhvam | tá ā́ gatávasā śántamenā́thā naḥ śáṃ yór arápo dadhāta ||
聖草(barhis)に坐す祖霊たちよ、我らを護るためこちらへ来たれ。汝らのためにこれらの供献を整えた、どうか歓んで受けよ。助けを携えて来たれ、最も慈しき助けを携えて来たれ。しかして我らに、安寧と繁栄と、害なき無傷を授けよ。
बर्हिषदः । पितरः । ऊतये । अर्वाक् । इमाः । वः । हव्याः । चकृम । जुषध्वम् । ते । आ । गत । अवसा । शन्तमेन । अथ । नः । शम् । योः । अरपः । दधात