उदी॑रता॒मव॑र॒ उत्परा॑स॒ उन्म॑ध्य॒माः पि॒तर॑: सो॒म्यास॑: । असुं॒ य ई॒युर॑वृ॒का ऋ॑त॒ज्ञास्ते नो॑ऽवन्तु पि॒तरो॒ हवे॑षु
udī́ratām ávarā útparāsa únmadhyamā́ḥ pitáraḥ somyā́saḥ | asúṃ yá ī́yur avṛkā́ ṛtajñā́s te no 'vantu pitáro havéṣu
父祖たちは奮い起て――下なる者、上なる者、中なる者、ソーマ(Soma)にふさわしき者よ。生命の息(アス)へと進みゆき、害なき者、リタ(ṛta:宇宙の秩序)を知る者たち――その父祖たちが、我らの呼びかけにおいて我らを護り助けよ。
उत्-ईरताम् । अवराः । उत्-परासः । उत्-मध्यमाः । पितरः । सोम्यासः । असुम् । ये । ईयुः । अवृकाः । ऋत-ज्ञाः । ते । नः । अवन्तु । पितरः । हवेषु