इ॒दᳪ ह॒विः प्र॒जन॑नं मे अस्तु॒ दश॑वीर॒ᳪ सर्व॑गणᳪ स्व॒स्तये॑ । आ॒त्म॒सनि॑ प्रजा॒सनि॑ पशु॒सनि॑ लोक॒सन्य॑भय॒सनि॑ । अ॒ग्निः प्र॒जां ब॑हु॒लां मे॑ करो॒त्वन्नं॒ पयो॒ रेतो॑ अ॒स्मासु॑ धत्त
idáṃ havíḥ prajánanaṃ me astu daśavīráṃ sárvagaṇaṃ svastáye | ātmásani prajā́sani paśúsani lokásany abháyasani | agníḥ prajā́ṃ bahulā́ṃ me karotv ánnaṃ páyo réto asmā́su dhatta
この供物が、我にとって子孫を生み出す因となれ――勇ましき子に富み、あらゆる群れを具え、安寧のために。自己の獲得、子孫の獲得、家畜の獲得、世界の獲得、無畏の獲得となれ。アグニ(Agni)は我に多くの子孫を成し、また我らの内に食物・乳・精種を授けよ。
इदम् । हविः । प्र-जननम् । मे । अस्तु । दश-वीरम् । सर्व-गणम् । स्वस्तये । आत्म-सनिः । प्रजा-सनिः । पशु-सनिः । लोक-सनिः । अभय-सनिः । अग्निः । प्रजाम् । बहुलाम् । मे । करोतु । अन्नम् । पयः । रेतः । अस्मासु । धत्त