व्री॒हय॑श्च मे॒ यवा॑श्च मे॒ माषा॑श्च मे॒ तिला॑श्च मे मु॒द्राश्च॑ मे॒ खल्वा॑श्च मे प्रि॒यङ्ग॑वश्च॒ मेऽण॑वश्च मे श्या॒माका॑श्च मे नी॒वारा॑श्च मे गो॒धूमा॑श्च मे म॒सूरा॑श्च मे य॒ज्ञेन॑ कल्पन्ताम्
vrīhayaś ca me yavāś ca me māṣāś ca me tilāś ca me mudrāś ca me khalvāś ca me priyaṅgavaś ca me ’ṇavaś ca me śyāmākāś ca me nīvārāś ca me godhūmāś ca me masūrāś ca me yajñena kalpantām
稲も我に、麦(大麦)も我に;豆も我に、胡麻も我に;豆類も我に、カールヴァ穀(khalva)も我に;プリヤング(priyaṅgu)も我に、微小の穀も我に;黍稷の類(śyāmāka)も我に、野稲(nīvāra)も我に;小麦も我に、レンズ豆(masūra)も我に。これらすべて、祭祀(yajña)によって整えられ、我のために成就せよ。
व्रीहयः । च । मे । यवाः । च । मे । माषाः । च । मे । तिलाः । च । मे । मुद्राः । च । मे । खल्वाः । च । मे । प्रियङ्गवः । च । मे । अणवः । च । मे । श्यामाकाः । च । मे । नीवाराः । च । मे । गोधूमाः । च । मे । मसूराः । च । मे । यज्ञेन । कल्पन्ताम् ।