वि॒त्तं च॑ मे॒ वेद्यं॑ च मे भू॒तं च॑ मे भवि॒ष्यच्च॑ मे सु॒गं च॑ मे सुप॒थ्यं॒ च म ऋ॒द्धं च॑ म॒ ऋद्धि॑श्च मे क्लृ॒प्तं च॑ मे॒ क्लृप्ति॑श्च मे म॒तिश्च॑ मे सुम॒तिश्च॑ मे य॒ज्ञेन॑ कल्पन्ताम्
vittaṃ ca me vedyaṃ ca me bhūtaṃ ca me bhaviṣyac ca me sugaṃ ca me supathyaṃ ca me ṛddhaṃ ca me ṛddhiś ca me klṛptaṃ ca me klṛptiś ca me matiś ca me sumatiś ca me yajñena kalpantām
我に資(たから)と、知るべきもの(védya)とがあれ。我に過去なるものと未来なるものとがあれ。我に良き渡りと良き道とがあれ。我に栄えたる境と繁栄とがあれ。我に整えられたるものと整える力とがあれ。我に思いと善き思いとがあれ。これらが祭祀(यज्ञ)によって、我のために整えられ成就せよ。
वित्तम् । च । मे । वेद्यम् । च । मे । भूतम् । च । मे । भविष्यत् । च । मे । सुगम् । च । मे । सुपथ्यम् । च । मे । ऋद्धम् । च । मे । ऋद्धिः । च । मे । क्लृप्तम् । च । मे । क्लृप्तिः । च । मे । मतिः । च । मे । सुमतिः । च । मे । यज्ञेन । कल्पन्ताम् ।