उदे॑नमुत्त॒रां न॒याग्ने॑ घृतेनाहुत । रा॒यस्पोषे॑ण॒ सᳪ सृ॑ज प्र॒जया॑ च ब॒हुं कृ॑धि
úd enam uttarā́ṃ nayā́gne ghṛténā́huta | rāyás póṣeṇa sáṃ sṛja prajā́yā ca bahúṃ kṛdhi
アグニよ、酥油をもって供えられし者よ、この人を上へ、より高き境へ導け。財の増益と繁栄とに彼を結び合わせ、さらに子孫によって彼を豊かにせよ。
उद् । एनम् । उत्तराम् । नय । अग्ने । घृतेन । आहुत । रायः । पोषेण । सम् । सृज । प्रजया । च । बहुम् । कृधि ।