मीढु॑ष्टम॒ शिव॑तम शि॒वो न॑: सु॒मना॑ भव । प॒र॒मे वृ॒क्ष आयु॑धं नि॒धाय॒ कृत्तिं॒ वसा॑न॒ आ च॑र॒ पिना॑कं॒ बिभ्र॒दा ग॑हि
mī́ḍhuṣṭama śívatama śivó naḥ sumánā bhava | paramé vṛkṣá ā́yudhaṃ nidhā́ya kṛ́ttiṃ vásāna ā́ cara pinā́kaṃ bíbhrad ā́ gahi ||
最も恵み深く、最も吉祥なる御方よ、われらに慈しみを垂れ、善き思いをもってあれ。最高の樹に武器を納め、皮衣をまとい、ピナーカ(Pināka)を携えて近づき来たれ、ここに来たれ。
मीढु॑ष्टम । शिव॑तम । शि॒वः । नः । सु॒मना॑ः । भव । प॒र॒मे । वृ॒क्षे । आयु॑धम् । नि॒धाय॑ । कृत्तिम् । वसा॑नः । आ । चर । पिना॑कम् । बिभ्र॒त् । आ । ग॒हि ।