नम॒: शुष्क्या॑य च हरि॒त्या॒य च॒ नम॑: पाᳪस॒व्या॒य च रज॒स्या॒य च॒ नमो॒ लोप्या॑य चोल॒प्या॒य च॒ नम॒ ऊर्व्या॑य च॒ सूर्व्या॑य च
námaḥ śuṣkyā̀ya ca harityā̀ya ca námaḥ pāṃsavyā̀ya ca rajasyā̀ya ca námo lópyā̀ya colapyā̀ya ca náma urvyā̀ya ca sū́rvyā̀ya ca
シュシュキヤ(Śuṣkya、乾けるもの)に敬礼、またハリティヤ(Haritya、青緑なるもの)に敬礼。パーンサヴィヤ(Pāṃsavya、塵なるもの)に敬礼、またラジャスヤ(Rajasya、霞み・靄なるもの)に敬礼。ローピヤ(Lopya、崩れ落つるもの)に敬礼、またオーラーピヤ(Olāpya、葦の茂るもの)に敬礼。ウールヴィヤ(Ūrvya、広大なるもの)に敬礼、またスールヴィヤ(Sūrvya、麗しく広がるもの)に敬礼。
नमः । शुष्क्याय । च । हरित्याय । च । नमः । पांसव्याय । च । रजस्याय । च । नमः । लोप्याय । च । उलप्याय । च । नमः । ऊर्व्याय । च । सूर्व्याय । च