नम॒: सोभ्या॑य च प्रतिस॒र्या॒य च॒ नमो॒ याम्या॑य च॒ क्षेम्या॑य च॒ नम॒: श्लोक्या॑य चावसा॒न्या॒य च॒ नम॑ उर्व॒र्या॒य च॒ खल्या॑य च
námaḥ sóbhyāya ca pratisaryā̀ya ca námo yāmyā́ya ca kṣemyā́ya ca námaḥ ślokyā́ya cāvasānyā̀ya ca náma urvaryā̀ya ca khalyā̀ya ca
ソービヤ(Sobhya、和やかに吉祥なる者)に敬礼、またプラティサルヤ(Pratisarya、対して逆行する者)に敬礼。ヤーミヤ(Yāmya、南方に属する者)に敬礼、またクシェーミヤ(Kṣemya、安穏をもたらす者)に敬礼。シュロークヤ(Ślokya、讃えらるべき者)に敬礼、またアヴァサーニヤ(Avasānya、終結に属する者)に敬礼。ウルヴァリーヤ(Urvarīya、肥沃な田の主)に敬礼、またカリヤ(Khalya、打穀場の主)に敬礼。
नमः । सोभ्याय । च । प्रतिसर्याय । च । नमः । याम्याय । च । क्षेम्याय । च । नमः । श्लोक्याय । च । अवसान्याय । च । नमः । उर्वर्याय । च । खल्याय । च