नम॒स्तक्ष॑भ्यो रथका॒रेभ्य॑श्च वो॒ नमो॒ नम॒: कुला॑लेभ्यः कु॒र्मारे॑भ्यश्च वो॒ नमो॒ नमो॑ निषा॒देभ्य॑: पु॒ञ्जिष्टे॑भ्यश्च वो॒ नमो॒ नम॑: श्व॒निभ्यो॑ मृग॒युभ्य॑श्च वो॒ नम॑:
námas takṣábhyo rathakāŕebhyaś ca vo námo námaḥ kulā́lebhyaḥ kurmāŕebhyaś ca vo námo námo niṣādébhyaḥ púñjiṣṭebhyaś ca vo námo námaḥ śvánibhyo mṛgayúbhyaś ca vo námaḥ
大工(takṣan)と車作り(rathakāra)に敬礼、汝らに敬礼あれ。陶工(kulāla)と鍛冶・工匠(kūrmāra)に敬礼、汝らに敬礼あれ。ニシャーダ(Niṣāda)と積み上げる者(puñjiṣṭa)に敬礼、汝らに敬礼あれ。犬を飼う者(śvanin)と狩人(mṛgayu)に敬礼、汝らに敬礼あれ。
नमः । तक्षभ्यः । रथकारेभ्यः । च । वः । नमः । नमः । कुलालेभ्यः । कुर्मारेभ्यः । च । वः । नमः । नमः । निषादेभ्यः । पुञ्जिष्टेभ्यः । च । वः । नमः । नमः । श्वनिभ्यः । मृगयुभ्यः । च । वः । नमः ।